________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
'अथाऽमिलन् सैनिकानामक्षौहिण्य'श्चतुर्दश । आहूतानि जगत्सारसर्वस्वानीव सर्वतः ॥ ६५ ॥ द्वयोरपि तयोर्भेदमजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽर्थेऽर्धे विटसुग्रीवतोऽभवन् ॥ ६६॥ ततः प्रववृते युद्धं सैन्ययोरुभयोरपि । कुन्तपातैर्दिवं कुर्वदुल्कापातमयीमिव ॥६७॥
युयुधे सादिना सादी निर्षांदी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥ ६८ ॥ चतुरङ्गचमूचक्रविमर्दादथ मेदिनी । अवाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥ ६९ ॥ एह्येहि रे परगृहप्रवेशश्वन्निति ब्रुवन् । विटसुग्रीवमुद्ग्रीवः सुग्रीवो योद्धुमाह्वत ॥७०॥ ततश्च विटसुग्रीवो मत्तेभ इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् सम्मुखीनो युधेऽभवत् ॥ ७१ ॥ युयुधाते महायोधौ तौ क्रोधारुणलोचनौ । विदधानौ जगत्त्रासं कीनाशस्येव सोदरौ ॥७२॥ तौ निशातैर्निर्शातानि शस्त्रैः शस्त्राण्यथो मिथः । चिच्छिदाते तृणच्छेदं रँणच्छेकावुभावपि ॥७३॥ शस्त्रखण्डैरुच्छलद्भिर्दुद्रुवे खेचरीगणः । महायुद्धे तयोर्वृक्षखण्डो महिषयोरिव ॥७४॥
१९०
तौ छिन्नास्त्रावथाऽन्योऽन्यममर्षणशिरोमणी । मल्लयुद्धेनाऽऽस्फलतां पर्वताविव जङ्गमौ ॥७५॥ उत्पतन्तौ क्षणाद् व्योम्नि निपतन्तौ क्षणाद् भुवि । ताम्रचूडाविवाऽभातां वीरचूडामणी उभौ ॥७६॥ तौ द्वावपि महाप्राणौ मिथो जेतुमनीश्वरौ । अपसृत्य च दूरेण वृषभाविव तस्थतुः ॥७७॥ [साहाय्यकार्थं सुग्रीवः समाहूयाऽञ्जनासुतम् । भूयोऽपि युयुधे मायासुग्रीवेणोग्रकर्मणा ॥७८॥ हनूमतः पश्यतोऽपि द्वयोर्भेदमजानतः । कुट्टयामास सुग्रीवं विटसुग्रीव उत्कटः ॥७९॥ पुनर्युद्धेन सुग्रीवः खिन्नः खिन्नैतनुस्ततः । बहिर्निर्गत्य किष्किन्धपुरादावासमग्रहीत् ॥८०॥ तत्रैव विटसुग्रीवस्तस्थावस्वस्थमानसः । अन्तःपुरप्रवेशं च न लेभे वालिनन्दनात् ॥ ८१ ॥ सुग्रीवो न्यञ्चितग्रीवमथैवं पर्यचिन्तयत् । अहो ! स्त्रीलम्पट : कूटपटुः कोऽप्येष नो द्विषन् ॥८२॥ आत्मीया अप्यनात्मीया द्विषन्मायावशीकृताः । अहो बभूवुस्तदसाववस्कन्दो निजैर्हयैः ॥ ८३॥ मायापराक्रमोत्कृष्टः कथं वध्यो द्विषन्मया ? । धिग् मां पराक्रमभ्रष्टं वालिनौम्नस्त्रपाकरम् ॥८४॥ धो महाबलो वाली योऽखण्डपुरुषव्रतः । राज्यं तृणमिव त्यक्त्वा जगाम परमं पदम् ॥८५॥ चन्द्ररश्मिः कुमारो मे बलीयान् जगतोऽप्यसौ । किं तु द्वयोरभेदज्ञः कं रक्षतु निहन्तु कम् ? ॥८६॥ इदं तु विदधे साधु साध्वहो चन्द्ररश्मिना । तस्य पापीयसो रुद्धं शुद्धान्ते यत् प्रवेशनम् ॥८७॥ वधाय बलिनोऽमुष्य बलीयांसं श्रयामि कम् ? । यद् घात्या एव रिपवः स्वतोऽपि परतोऽपि वा ॥ ८८ ॥ भूर्भुवःस्वस्त्रयीवीरं मरुत्तमखभञ्जनम् । भजामि विद्विषद्धातहेतवे किं दशाननम् ? ॥८९॥
असौ किं तु प्रकृत्या 'स्त्रीलोलस्त्रैलोक्यकण्टकः । तं च मां च निहत्याऽऽशु तारामादास्यते स्वयम् ॥९०॥ ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत् खरः खरतरो राघवेण हतः स तु ॥ ९१ ॥ तावेव राम - सौमित्री गत्वा मित्रीकरोमि तत् । तत्कालोपनतस्याऽपि 'यौ विराधस्य राज्यदौ ॥९२॥ तौ तु पाताललङ्कायामलङ्कर्मीणदोर्बलौ । विराधस्योपरोधेन तथैवाऽद्याऽपि तिष्ठतः ॥ ९३|| एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्यां विश्वासास्पदं दूतं न्योयजयत् ॥९४॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥ ९५ ॥ महति व्यसने स्वामी पतितो नस्तदीदृशे । राघवौ शरणीकर्तुं तव द्वारेण वाञ्छति ॥९६॥ द्रुतमायातु सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ॥ ९७॥ १. अथाऽऽगच्छन् मो. ॥ २. हे. प्रतौ टिप्पण्यत्रैवं
“पत्ती सेणा सेणामुहं च गुम्मं च वाहिणी चेव । पियणा चमू अणीगिणी दसगुणिआ अक्खोहिणी होई ॥”
"नवसहस्स गयवरेहिं नवहिं लक्खेहिं रहवराणं च । नवकोडीहिं हयाणं नराण नवकोडिकोडीहिं ॥”
(सप्तमं पर्व
३. अश्वारोही ।। ४. गजारोही ।। ५. प्रवेशिन्निति तं ब्रु० मु.; " श्वानः" इति ला. टि.; हे परगृहप्रवेशे श्वन्-श्वान! इत्यर्थः ॥ ६. तीक्ष्णानि ।। ७. रणदक्षौ ॥ ८. महायुधि ता ॥ ९. वृक्षसमूहः ॥ १०. हनूमन्तम् ॥ ११. युयुधे च तदा सार्धं सुग्री० पाता ।। १२. “प्रस्वेदितः" इति ला. टि. ।। १३. “नम्रीकृतः” इति ला. टि. ।। १४. निजैरेवाऽश्वैर्निजस्यैव पीडनम् ॥ १५. वालिराजस्य नाम्नि लाञ्छनकरम् ॥ १६. च ता ॥ १७. वा द्वि० पाता. ।। १८. स्त्रीलम्पटः ॥ १९. तौ ला. विना ॥ २०. ०सभूतं ला. विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org