________________
षष्ठः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम्। 'विष्णुनाऽपि रणे यस्य शक्तिरीहक्खर: स हि। प्रतिविष्णोरप्यधिको व्योमन्येवं गिरोऽभवन् ॥३०॥ कालक्षेपो वधेऽस्याऽपीत्यमर्षाल्लज्जित: स्वयम्। सौमित्रि: खरमूर्धानं क्षुरप्रेणाऽच्छिदत् क्षणात् ॥३१॥ दूषणो लक्ष्मणेनाऽपि ससैन्यो यो मुद्यत: । सञ्जहे कुञ्जर इव सयूथो दववह्निना ॥३२॥ पाततः सार्धं विराधेन ववले रामसोदरः। स्फुरद्वामेक्षण: काममाशंसन्नार्ययो: शुभम् ॥३३॥ गत्वा दूरमपश्यच्च रामभद्रं द्रुमान्तरे । सीताविरहितं दृष्ट्वा विषादं परमं ययौ ॥३४॥ पुर:स्थमपि सौमित्रिमपश्यन् रघुपुङ्गवः । सीताविरहशल्येन पीडित: खेऽब्रवीदिति ।।३५।। वनं भ्रान्तमिदं तावन्मया दृष्टा न जानकी। युष्माभिः किं न सा दृष्टा ? ब्रूत हे वनदेवता:! ॥३६॥
अमुष्मिन् भीषणेऽरण्ये भूत-श्वापदसङ्कुले। विमुच्यैकाकिनी सीतां लक्ष्मणाय गतोऽस्म्यहम् ।।३७|| रक्षोभटसहस्राग्रे संयत्येकं च लक्ष्मणम् । मुक्त्वा भूयोऽहमत्राऽऽगामहो! धीर्मम दुर्धियः ॥३८॥ हा सीते! निर्जनेऽरण्ये कथं मुक्ता मया प्रिये! ? | हा वत्स! लक्ष्मण! कथं मुक्तोऽसि रणसङ्कटे ? ॥३९।। एवं ब्रुवन् रामभद्रो मूर्च्छया न्यपतत् क्षितौ । क्रन्दद्भिः पक्षिभिरपि वीक्ष्यमाणो महाभुजः ॥४०॥ लक्ष्मणोऽप्यब्रवीदेवार्याऽऽर्य! किमिदं ननु ? । तवाऽयं लक्ष्मणो भ्राता जित्वाऽरीन् समुपस्थितः ॥४१॥ पीयूषेणेव संसिक्तो रामभद्रस्तया गिरा । लब्धसञो ददर्शाऽग्रे संस्वजे च निजानुजम् ॥४२॥ उदश्रुरूचे सौमित्रिः सिंहनादस्य कारणम् । जानकीहरणमिदं ध्रुवं कस्याऽपि मायिनः ॥४३।। तस्य प्राणैः सहैवाऽहमाहरिष्यामि जानकीम् । तत्प्रवृत्त्युपलम्भाय सम्प्रति प्रयतामहे ॥४४॥
पाताललकाराज्ये च स्थाप्यतामेष पैतृके। विराधः प्रतिपन्नं हि मयाऽमुष्मै खराहवे ॥४५।। सीताप्रवृत्तिमानेतुं विद्याधरभटानथ । प्रजिघाय विराधस्तावारिराधयिषुः प्रभू ॥४६॥ काकुत्स्थौ तस्थतस्तत्र शोकानलकैरालितौ । मुहुर्मुहुनि:श्वसन्तौ निर्दशन्तौ क्रुधाऽधरम् ॥४७॥ दूरं विद्याधरा: भ्रान्त्वा विराधप्रहिताश्च ते। सीताप्रवृत्तिं न प्रापुस्त!त्याऽस्थुरधोमुखाः ॥४८॥ तेषामधोमुखत्वेन ज्ञात्वा रामोऽब्रवीदिति । स्वामिकार्ये यथाशक्ति साधु युष्माभिरुद्यतम् ॥४९॥ सीताप्रवृत्तिर्न प्राप्ता को दोषस्तत्र वो भटा:! ? । दैवस्य विपरीतस्य के यूयं कोऽपरोऽथवा ? ॥५०।। नत्वा विराधोऽप्यवदन्मा निर्वेदं कृथा: प्रभो! । अनिर्वेदः श्रियो मूलं तव भृत्योऽस्मि नन्वहम् ॥५१॥ एहि पाताललङ्कायां निवेशयितुमद्य माम् । सीताप्रवृत्ति: सुलभा तत्र भर्तुर्भविष्यति ॥५२।। विराधेन ससैन्येन ततो रामः सलक्ष्मणः । ययौ पाताललङ्काया: पुर्याः परिसरावनौ ॥५३॥ पतत्राऽरिसूदन: सुन्दो नाम रक्षः खरात्मजः । सम्मुखीनो रणायाऽऽगान्महासैन्यसमावृतः ॥५४॥ पुरोगेण विराधेन समं पूर्वविरोधिना। सुन्दश्चक्रे रणं घोरं सद्यः पितृवधक्रुधा॥५५॥ अथो रणस्थे काकुत्स्थे सुन्दश्चन्द्रणखागिरा। सद्यः प्रणश्य लङ्कायां रावणं शरणं ययौ ॥५६॥ तत: पाताललङ्कायां प्रविश्य रघुपुङ्गवौ । निवेशयामासतुस्तं विराधं पैतृके पदे॥५७॥ प्रासादे खरराजस्य तस्थतू राम-लक्ष्मणौ । युवराज इव पुनर्विराध: सुन्दवेश्मनि ॥५८॥ पाइतश्च साहसगतेश्चिरं ताराभिलाषिणः । सिद्धा प्रतारणी विद्या हिमवगिरिकन्दरे ॥५९॥ तया सुग्रीवरूपः स कामरूप इवाऽमरः। जगाम किष्किन्धपुरे द्वितीयोऽर्क इवाऽम्बरे॥६०॥ क्रीडा) बहिरुद्याने सुग्रीवे च गते तदा । स तदन्तःपुरमगात् तारादेवीविभूषितम् ॥६१।। आगाच्च सत्यसुग्रीवो द्वारि च द्वारपालकैः । स्खलितोऽग्रे गतो राजा सुग्रीव इति वादिभिः ॥६२॥ सुग्रीवद्वितयं दृष्ट्वा सन्देहाद्वालिनन्दनः । शुद्धान्तविप्लवं त्रातुं तवारं त्वरितं ययौ ॥६३॥ शुद्धान्ते विटसुग्रीवः प्रविशन् वालिसूनुना। मार्गाद्रिणा सरित्पूर इव प्रस्खलितस्ततः॥६४॥ १. लक्ष्मणेन ॥२. रावणात् ॥ ३. पशुना॥४. स्फुरद् वामं ईक्षणं-नेत्रं यस्य सः ।। ५. राम-सीतयोः॥६.दुमान्तरे ता.॥७. च परं ता.॥८. रघुनन्दनः छा. पा. ॥ ९. आकाशे-आकाशाभिमुखं दृष्ट्वा ।। १०. गतोऽस्मि हा! मु., खं.१-२॥११. “सङ्ग्रामे" इति ला.टि.॥१२. मुक्तधी(धै)र्योऽह० ला. ॥ १३.
०मार्याय मु.॥१४. समुपा. मु.॥ १५. आलिलिङ्ग ।। १६. मया दातुं प्रतिज्ञातम् ॥ १७. खरसङ्ग्रामे ॥१८. प्रेषितवान् ॥१९. ०परिप्लुतौ ता. ॥ २०. Jain Education समन्वितम् मो. ।। २१. अन्त:पुरोपद्रवम् ॥
For Private & Personal Use Only
www.jainelibrary.org