________________
॥षष्ठः सर्गः॥
इतश्च रामः सम्प्राप्तस्त्वरितं तत्र चापभृत् । अमित्रैः सह सौमित्रिर्यत्राऽभूदु रणकेलिकृत् ॥१॥ आयान्तं राममालोक्य सौमित्रिरिदमब्रवीत् । आर्यामेकाकिनी मुक्त्वा किमार्येह त्वमागम: ? ॥२॥ आहूत: सिंहनादेन तव वैधुर्यलक्ष्मणा । लक्ष्मणाऽहमिहाऽऽयातो व्याजहारेति राघवः ॥३॥ लक्ष्मणोऽप्यवदत् सिंहनादोऽकारि मया न हि । श्रुतश्चाऽऽर्येण तन्नूनं वयं केनाऽपि वञ्चिताः ॥४॥ अपनेतुं सत्यमार्यामपनीतोऽस्युपायत: । सिंहनादस्य करणे शङ्के स्तोकं न कारणम् ॥५॥ तद् गच्छ शीघ्रमेवाऽऽय! त्रातुमायाँ महाभुज! । हत्वाऽरीनहमप्येष यावदायामि पृष्ठतः॥६॥ इत्युक्तो रामभद्रोऽगात् स्वस्थानं तत्र जानकीम् । नाऽपश्यच्च महीपृष्ठे मूर्च्छितो निपपात च ॥७॥ लब्धसञः समुत्थाय तं मूमुएं जटायुषम् । ईक्षाञ्चक्रे रामभद्रो दध्याविति च तीक्ष्णधीः ॥८॥ केनाऽपि दयिता नूनं जहे च्छलपरेण मे। तेनाऽपहारक्रद्धोऽयं महात्मा निहतः खगः ॥९॥ तत: प्रत्युपकाराय श्रावकस्य जटायुषः । ददौ रामो नमस्कारं परलो काध्वशम्बलम् ॥१०॥ स विपद्याऽभवत् कल्पे माहेन्द्रे प्रवर: सुरः । रामोऽपि सीतामन्वेष्टमाटाऽटव्यामितस्ततः ॥११॥ पाइतश्च लक्ष्मणो वीर: खरेण प्राज्यपत्तिना । योद्धं प्रावर्ततैकोऽपि न सिंहस्य सखा युधि ॥१२॥ अत्राऽन्तरे च त्रिशिरा: खरस्याऽवरजो भट: । को नामाऽस्मिंस्तवाऽऽक्षेप इति ज्येष्ठं न्यवारयत् ॥१३।। अथो रथस्थं त्रिशिरोराक्षसं समरोद्यतम् । जघान रामावरजो गणयंस्तं पतङ्गवत्॥१४॥ पातदा पाताललकेशचन्द्रोदरनृपात्मजः। विराध: सर्वसन्नाहिसैन्यस्तत्र समाययौ॥१५।। आरिराधयिषुर्नत्वा विराधो रामसोदरम्। इत्यूचे तव भृत्योऽहमेतेषां त्वद्विषां द्विषन् ।१६।। चन्द्रोदराख्यं निर्वास्य पितरं मे महाभुज!। पाताललकां जगृहुरमी रावणपत्तयः॥१७॥ कः सखांऽशोस्तमोध्वंसे? द्विषद्विदलने च ते? । तथाऽपि भृत्यलेशत्वाद् रणायाऽऽदिश मां प्रभो! ।।१८॥ स्मित्वा च लक्ष्मणोऽवोचद्धन्यमानान्मया द्विषः। पश्याऽमून विजयो ह्यन्यसाहाय्याद् दोष्मतां ह्रिये॥१९॥
अद्यप्रभृति ते स्वामी ज्येष्ठो ममरघूद्वहः । पाताललकाराज्ये च स्थापितोऽसि मयाऽद्य भोः! ।।२०।। विरोधिनं विराधं स्वं तं दृष्ट्वा लक्ष्मणान्तिके। क्रुद्धोऽधिकं खरोऽभ्येत्याऽधिज्यधन्वैवमब्रवीत्॥२१॥ तनयो मम शम्बूकः क्वाऽस्ते विश्वस्तघातक! ? । विराधेन वराकेण संख्या किं रक्ष्यसेऽधुना ? ॥२२॥ स्मित्वा चोवाचसौमित्रिस्त्रिशिरा अपि तेऽनुजः । भ्रातुः पुत्रस्य सोत्कण्ठस्तमनु प्रेषितो मया॥२३॥ पुत्रे भ्रातरि चोत्कण्ठा चेत् तवाऽपि बलीयसी। नेतुं त्वामपि तत्राऽस्मि सेज: सज्यधनुर्ननु ॥२४।। मया प्रमादघातेन पादन्यासेन कुन्थुवत्। तव सूनुर्हतो मूढ! तत्र मे पौरुषं न हि॥२५॥ अधुना त्वं भटम्मन्यश्चेत् पूरयसि कौतुकम् । त्वया प्रीणामि कोशं वनवासेऽपिसत्र्यहम् ॥२६।। इत्युक्तवति सौमित्रावमित्रो राक्षस: खरः।खरं प्रहर्तुमारेभे दन्तीव गिरिसानुनि ॥२७।। लक्ष्मणोऽपि क्षणेनाऽपि कङ्कपत्रैः सहस्रशः । अम्बरं तिरयामास भर्नुभिर्भानुमानिव॥२८॥ भयङ्कर: खेचराणां गरीयान् सङ्गरस्तयोः। अजायत श्राद्धदेवबैतैकमहोत्सवः॥२९।। १. शत्रुभिः ॥ २. वैकल्यचिढेन ।। ३. अपहर्तुं मु. पाता. ॥ ४. दूरं नीतः ।।५. मुमूर्षुजटा० हे. ।। ६. महात्मनः खं.२ ॥७. परलोकमार्गपाथेयम् ।। ८. प्राज्या:-बहवः पत्तयः-सैनिका: यस्य सः, तेन ।। ९. लघुभ्राता ॥१०. आक्षेप:-आक्रमणं युद्धोत्साहो वा ।। ११. पक्षीव ।। १२. सुसज्जसर्वसैन्यवान् ॥ १३. आराधयितुमिच्छुः ।। १४. हत्वा चन्द्रोदरं नाम खं.२, पाता. ॥१५. "सूर्यस्य" इति ला.टि. ॥ १६. शत्रुक्षयकरणे ॥ १७. ० लेश्यत्वा० ता. ॥ १८. रघुवंशजः ॥१९. ०राज्येऽपि ला.॥२०. मित्रेण ॥ २१. सद्य: मु. कां.; रक्षः! खं.२॥ २२. ज्यया-प्रत्यञ्चया सहितं सज्यं धनुर्यस्य सः ॥ २३. यमम् ।। २४. सत्यहम् खं.२, पाता.; "सत्रागारी" इति ला.टि., गृहपतिरित्यर्थः ॥२५. तीक्ष्णम् ॥२६. बाणैः ।। २७. छादयामास ।। २८. किरणैः ।। २९. श्राद्धदेवो यमः, स एव दैवतं, तस्य महोत्सवः ॥ ३०. ०देवतैक० खं.१, पाता. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org