Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 188
________________ चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् । १७१ अथाऽश्रुभरितदृष्टिर्भरतो गद्गदाक्षरम् । पतित्वा पादयो राममित्युवाच कृताञ्जलिः ॥४३८॥ तातपादार्यपादानां महेच्छानामद: खलु । उचितं ददतां राज्यमाददानस्य मे न तु ॥४३९।। तातस्य सूनुः किं नाऽहं ? किं वा नाऽऽर्यस्य चाऽनुज: ? । सत्यं मातृमुखोऽस्म्येष गर्द्धमेव करोमि चेत् ॥४४०। रामो राजानमित्यूचे भरतो मयि सत्यसौ। राज्यं नाऽऽदास्यते तस्माद् वनवासाय याम्यहम् ॥४४॥ इत्यनुज्ञाप्य राजानं रामो नत्वा च भक्तितः। भरते च रुदत्युच्चैर्निर्ययौ चाप-तूणभृत् ।।४४२॥ वनवासाय गच्छन्तं दृष्ट्वा दशरथः सुतम् । भूयो भूयो ययौ मूर्छामतुच्छां स्नेहकातरः ॥४४३।। अथाऽपराजितां देवीं नत्वा रामोऽभ्यधादिति । मातर्यथाऽहं तनयो भरतोऽपि तथैव ते॥४४४।। स्वां सत्यापयितुं सन्धां तस्मै राज्यमदात् पिता। मयि सत्येष नाऽऽदत्ते तद् गन्तव्यं मया वने ॥४४५।। तद् दृशा भरतं पश्ये: सविशेषप्रसादया। कदाचिदपि मा भूस्त्वं मद्वियोगेन कातरा ॥४४६।। तामाकर्ण्य गिरं देवी पपात भुवि मूर्च्छिता। चेटीभिश्चन्दनाम्भोभिः सिक्तोत्तस्थावुवाच च ॥४४७॥ आ:! केन जीविताऽस्म्येषा ? मूर्छा हि सुखमृत्यवे। सहिष्ये रामविरहदुःखं जीवन्त्यहं कथम् ? ॥४४८॥ वनं व्रजिष्यति सुत: पतिश्च प्रव्रजिष्यति । श्रुत्वाऽप्येतन्न यद्दीर्णा कौशल्ये! वज्रमय्यसि ॥४४९।। रामो जगाद भूयोऽपि मात:! पत्न्यसि मत्पितुः । तत: किमिदमारब्धं कातरस्त्रीजनोचितम् ? ॥४५०॥ वनान्यटितुमेकाकी याति केसरिणीसुतः । स्वस्था तु केसरिण्यस्ति न ताम्यति मनागपि ॥४५१॥ तातस्य ऋणमस्त्युच्चैः प्रतिपन्नवरो ह्ययम् । अत्र स्थिते च मय्यम्ब! तस्याऽऽनृण्यं भवेत् कथम् ? ॥४५२॥ इत्यादियुक्तिवचनैर्बोधयित्वाऽपराजिताम् । तां नत्वाऽन्याश्च जननीर्निर्ययौ लक्ष्मणाग्रजः ॥४५३॥ पादूराद् दशरथं नत्वा सीतोपेत्याऽपराजिताम् । नत्वा चाऽयाचताऽऽदेशं रामानुगमन प्रति ॥४५४।। ऊचेऽपराजिता देवी क्रोडमारोप्य जानकीम् । बालामिव स्नपयन्ती केवोष्णैर्नयनोदकैः ।।४५५।। वत्से! वत्सो रामभद्रो विनयी पित्रनुज्ञया। वनं प्रयाति तस्यैतन्नृसिंहस्य न दुष्करम् ॥४५६।। देवीव लालिताऽसि त्वमाजन्मोत्तमवाहनैः । सहिष्यसे कथं वत्से! पादचङ्कमणव्यथाम् ? ॥४५७।। तवाऽङ्गं सौकुमार्येण कमलोदरसोदरम्। क्लिष्टं तापादिना कुर्यात् क्लेशं दाशरथेरपि॥४५८॥ स्वभर्तुरनुयानेनाऽनिष्टकष्टागमनेन च । न निषेधं न चाऽनुज्ञां यान्त्यास्ते कर्तुमुत्सहे॥४५९।। सीताऽप्युवाच नि:शोका नमस्कृत्याऽपराजिताम् । दधती प्रोतरुत्फुल्लसरोरुहमिवाऽऽननम् ॥४६०॥ अँधित्वदस्तु मे भक्तिर्नित्यं क्षेमङ्करा पथि । एषाऽहमनुयास्यामि रामं विद्युदिवाऽम्बुदम् ॥४६१॥ इत्युक्त्वा तां पुनर्नत्वा निर्ययौ जनकात्मजा । आत्मानमात्मरामेव ध्यायन्ती लक्ष्मणाग्रजम् ॥४६२।। अहो! अत्यन्तमनया पतिभक्त्याऽद्य जानकी । आद्योदाहरणं जज्ञे पतिदैवतयोषिताम् ॥४६३॥ कष्टादभीता सीतेयं सतीजनमतल्लिका। अहो शीलेन महता पनाति स्वं कुलद्वयम ॥४६४॥ इति व्यावर्णयन्तीभि: शोकगद्गदया गिरा। पौरीभिः कथमप्यैक्षि सीता यान्ती वनं प्रति ॥४६५||त्रिभिर्विशेषकम्।। परामं वनाय निर्यान्तं दृष्ट्वा सपदि लक्ष्मण: । सद्य: सेन्धुक्षितक्रोधवह्निर्दध्याविदं हृदि ॥४६६॥ ऋजुस्तात: प्रकृत्याऽपि प्रकृत्याऽनृजव: स्त्रियः । इयच्चिरं वरं धृत्वा योचते साऽन्यथा कथम् ? ॥४६७|| दत्तमेतावता राज्यं भरताय महीभुजा। अपनीतमृणं स्वस्य गता नश्च पितॄणभीः ।।४६८।। निर्भय: साम्प्रतं हृत्वा भरतात् कुलपांसनात् । न्यस्यामि राज्यं किं रामे विराँमाय निजक्रुधः ? ॥४६९॥ अथवाऽसौ महासत्त्वस्तृणवद् राज्यमुज्झितम् । रामो नाऽऽदास्यते दु:खं तातस्य तु भविष्यति ॥४७०|| १.महाशयानाम् ।। २. 'मावडियो' इति भाषायां, य: सर्वकार्येषु मातरमेव प्रेक्षतेऽनुसरति च ।। ३. गर्वमेवं मु.प्रभृतिषु ।। ४. चापतूणवान् मु.॥५. प्रतिज्ञाम् ।। ६. राज्यं ददौ पिता खं.१, ला. ॥७. वने मया खं.१-२॥ ८. भूश्च ता. ॥ ९. जीवाम्यहं खं.१ ॥१०. सिंहीपुत्रः ।। ११. केसरिण्यास्ते मु.॥ १२. ऋणमत्युच्चैः ता.॥१३. अवस्थिते मो. ॥१४. अङ्कम् ।। १५. ईषदुष्णैः ।।१६. प्रात:काले विकस्वरं कमलमिव ।। १७. त्वयि अधि इति अधित्वत्, तव उपरीत्यर्थः ।। १८. आत्मस्वरूपे एव आरामो यस्याः सा आत्मारामा-आत्मध्यानं कुर्वन्ती योगिनी तद्वत् ।। १९. जाता हे. मो. ता. ॥२०. पतिरेव दैवतं-देवः यासां, तासां नारीणाम् ।। २१. सतीसमूहे प्रशस्या।। २२. श्रुत्वा मुद्रिते; छा. पा. मो. विना सर्वप्रतिष्वपि ।। २३.सन्धुक्षित:-दीप्त: क्रोधवहिर्यस्य सः ॥२४. कुटिलाः ।।२५. ययाचे खंता.१-२, ला. ॥ २६. पित्वृण० पाता.; पितुः ऋणं, तस्य भी:-भयम् ("ऋतो वा तौ च"सि.१/२/४) ॥ २७. कुलाङ्गारात् ।। Jain EducationR.M. शमनाय” इति ला.टि.॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338