Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 3
________________ प्रकाशकीय निवेदन कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी जन्मशताब्दी (वि.सं. ११४५-२०४५)ना मंगल अवसरे पूज्य आचार्य श्रीविजय सूर्योदयसूरीश्वरजी तथा पूज्य आचार्यश्रीविजयशीलचन्द्रसूरीश्वरजीनी शुभप्रेरणाथी अमारा आ ट्रस्टनी स्थापना थई हती. प्राचीन ग्रन्थोनुं संशोधन-सम्पादनपूर्वक प्रकाशन, अनेक विद्वज्जनोनुं सन्मान, 'अनुसंधान'नामनी शोधपत्रिकानुं प्रकाशन-इत्यादि साहित्यिक प्रवृत्तिओ आ ट्रस्टनो मुख्य उद्देश छे. ते अनुसार कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी सूरिपद शताब्दी (वि.सं. ११६६-२०६६)ना उपलक्ष्यमा तेओना द्वारा विरचित त्रिषष्टिशलाकापुरुषचरितनो पूज्य आ. श्रीविजयशुभंकरसूरिजी रचित गद्यात्मकसारोद्धार प्रगट करतां अमो आनन्द अनुभवीए छीए. आ गद्यात्मकसारोद्धारनी रचना पूज्य आ.श्रीविजयशुभंकरसूरिजीए पूर्वे वि.सं. २०१६ना वर्षे करी हती. आजे ५० वर्ष पछी पूज्यश्री विजयसूर्योदयसूरीश्वरजीना शिष्य मुनिश्रीधर्मकीतिविजयजी द्वारा पुन: सम्पादित-संशोधित करेल आ ग्रन्थना प्रकाशननो लाभ अमारा ट्रस्टने मल्यो, ते बदल अमो तेओना ऋणी छीए. प्रथमावृत्ते: सम्पादकीयम्महीमहेलातिलककल्पेन, भूरिभूपालसेवितेन, परमार्हतेनाऽमारिप्रवर्तनेनाऽजातशत्रुणा, कुमारपालभूपालेन प्राथितो भगवान् कलिकालसर्वज्ञ आचार्यश्रीहेमचन्द्रसूरीश्वर इदं महाकाव्यं त्रिषष्टिशलाकापुरुषचरित्राख्यं निबबन्धेति श्रूयते। अस्मिश्च महाकाव्ये चतुर्विशतेस्तीर्थकराणां, द्वादशचक्रिणां, नवानां वासुदेवानां, नवप्रतिवासुदेवानां तथा नवबलदेवानामेवं सङ्कलनया त्रिषष्टेमहापुरुषाणां मोक्षगामिनां चरित्राणि निबद्धानि सन्तीत्यन्वर्थोऽयं महाग्रन्थ इति । तथा च विशेषतोऽस्मिन् महाकाव्ये कविकुलतिलकायमानस्य भगवतो विशिष्टव्याकरणप्रयोगाणां वैपुल्यं, काव्यचमत्कृतयोऽपूर्ववर्णनवैभवः, विषयनिरूपणस्य स्पष्टता, सरलशब्देरागमिकवस्तुनो निरूपणमित्येवमादि तत्र तत्र स्थानेषु जिज्ञासुशिष्यबुद्धिव्युत्पादनाय कृपापीयूषपूर्णचन्द्रायमानहृदयस्याऽपूर्व किमपि कलाकौशलं दरीदृश्यते । साहित्यलक्षणलक्षितमहाकाव्यगुणयुक्तेऽस्मिन् ग्रन्थरत्ने दार्शनिकवादप्रतिवादस्य, स्याद्वादसिद्धान्तस्य च सरलया मधुरया मनोहरया च गिरा वर्णनं कृतं तदपि भगवतः प्रकाण्डपाण्डित्यप्रतिष्ठा प्रकटयति । तस्यैव दशपर्वात्मकस्य महाकाव्यस्याऽस्य गद्यात्मकसारोद्धारो मम परमकृपालुभिर्गुरुवरैः पन्न्यासप्रवरैः श्रीशुभङ्करविजयगणिवरैः, कविरत्नानां समर्थव्याख्यानकाराणां, पन्यासपदालङ्कृतानांश्रीयशोभद्रविजयगणिवराणां सत्प्रेरणया मम प्रार्थनया च मादृशानामल्पबुद्धीनां सङ्क्षिप्तरुचीनां भव्यजीवानामुपयोगार्थ रचयाञ्चक्रे। ___अस्य प्रथमपर्वण: सम्पादनस्य भारो मम गुरुप्रवरैः समर्पितः तेन प्रमुदितचेतसा मया तत्स्वीकृतश्च, कृतेरस्याः सम्पादने मम दृष्टिदोषादक्षरसंयोजकस्य दोषाद्वा जातानामशुद्धीनां शुद्धिपत्रस्य माध्यमेन शुद्धयः करणीयः, तथाऽप्यवशिष्टा अशुद्धयः सहृदयैः सज्जनैः संशोधनीया मयि दयालुभिः । ग्रन्थस्याऽस्य पठनेन पाठनेन च जिज्ञासवो मुमुक्षवोऽनुकरणीयचरितानां चरित्रचयेन श्रेयःसाधने सफलीभवन्त्विति सशुभभावनमाशास्ते वि.सं. २०१६ मुनिसूर्योदयविजयः वि.सं. २०६७ लि. कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्य नवमजन्मशताब्दी स्मृतिशिक्षणसंस्कारनिधिः अमदावाद.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 89