Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 351
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३०५॥ अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिन चरितम् । इत्युक्ते पादयोर्नेमे रुक्मिण्याद्या हरिस्त्रियः । निपेतुः प्रार्थयमाना विवाहाय कृताग्रहाः ।। ११३ ।। तथार्थ्यमानं ताभिश्च प्रेक्ष्य कृष्णोऽपि नेमिनम् । उपेत्य प्रार्थयांचक्रे पाणिग्रहणकर्मणि ।।११४ ।। अन्येऽपि यदवो नेमिमूचुर्घातुर्वचः कुरु । शिवासमुद्रविजयौ मोदयान्यानपि स्वकान् ।। ११५ ॥ एवं तैः साग्रहैर्नेमिरुपरुद्धो व्यचिंतयत् । अहो अज्ञत्वमेतेषां धिग्दाक्षिण्यं ममाप्यदः ।। ११६ ।। न केवलं स्वयममी पतति भवसागरे । आबद्धस्नेहशिलया पातयन्ति परानपि ।। ११७ ॥ वाङमात्रेणानुमंतव्यममीषामधुना वचः । आत्मनीनं विधातव्यमवश्यं समये मया ।। ११८ ।। ऋषभस्तीर्थकृद्यच्च विवाहं विदधे पुरा । तत्तथा भोग्यकर्मत्वाद्विभिन्ना कर्मणां गतिः ।। ११९ ॥ एवं विमृश्य श्रीनेमिस्तद्वचः प्रत्यपद्यत । तच्छुत्वा जहषुः सर्वे समुद्रविजयादयः ।। १२० ।। तत्रातिवाह्य ग्रीष्मर्तुं गोविन्दः सपरिच्छदः । जगाम द्वारकां नेमियोग्यकन्येक्षणोत्सुकः ।। १२१ ॥ तमूचे सत्यभामाथ भगिनी मे कनीयसी । अस्ति राजीमती नाम्नानुरुपारिष्टनेमिनः ।। १२२ ॥ कृष्णोऽप्युवाच तामेवं सत्ये सत्यं हितासि मे । नेमिनाथानुरुपस्त्रीचिन्ताब्धेरुद्धृतोऽस्मि यत् ।। १२३ ।। अथोत्थाय स्वयं कृष्ण उग्रसेनगृहं ययौ । यदुभिः पुरलोकैश्च वीक्ष्यमाणः ससंभ्रमैः ।। १२४ ।। उग्रसेनोऽप्यर्घपाद्यादिना सत्कृत्य शाङ्गिणम् । सिंहासने चोपवेश्य पप्रच्छागमकारणम् ।। १२५ ।। १ विचित्रा। | श्रीनेमि कुमाराय राजीमतिमार्गणम् । ॥३०५ ।।

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420