Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 364
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३१८॥ अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । श्रीनेमेः प्रतिरुपाणि दिक्ष्वन्यास्वपि तत्क्षणम् । रत्नसिंहासनस्थानि विचक्रुर्व्यन्तरामराः ।। २८१ ।। अथ तस्थुर्यथास्थानं देवा देव्यश्चतुर्विधाः । दत्तेक्षणाः स्वामिमुखे चकोरा इव शीतगौ ।। २८२ ।। तथा च समवसृतं स्वामिनं शैलपालकाः । गत्वाचख्युः स्वनाथाय देवकीतनुजन्मने ।। २८३ ।। रुप्यस्य द्वादश कोटीः सार्धास्तेभ्यः प्रदाय सः । प्रचचाल गजारुढो नेमिनाथं विवन्दिषुः ।। २८४ ।। समं दशाहर्दशभिर्मातृभितृभिस्तथा । कोटिसंख्यैः कुमारैश्च समग्रान्तःपुरेण च ।। २८५ ।। महीभुजां षोडशभिः सहनैश्च समावृतः । ऋद्ध्या महत्या समवसरणं प्रययौ हरिः ॥२८६ ।। दूरादप्यवरुह्येभाद्राज्यचिह्नान्यपास्य च । उदग्द्वारेण समवसरणे प्राविशद्धरिः ।। २८७ ।। तत्र प्रदक्षिणीकृत्य नेमि नत्वा च शाभृित् । अनुशक्रं निषसाद यथास्थानमथापरे ।। २८८ ।। इन्द्रोपेन्द्रौ पुनर्नत्वा जिनेन्द्रमथ नेमिनम् । प्रारेभाते स्तोतुमेवं गिरा भक्तिपवित्रया । २८९ ।। नमस्तुभ्यं जगन्नाथ विश्वविश्वोपकारिणे । आजन्म ब्रह्मनिष्ठाय दयावीराय तायिने ।।२९० ॥ दिष्ट्या कर्माणि घातीनि स्वामिन् घातितवानसि । शुक्लध्यानेन दिवसैश्चतुःपञ्चाशतापि हि ।। २९१ ।। न केवलं यदुकुलं त्वया नाथ विभूषितम् । इदं जगत्त्रयमपि केवलालोकभास्वता ।। २९२ ।। अस्ताघो यस्तथा स्वामिन्नपारश्च भवांबुधिः । गुल्फगोष्पदमात्रं स स्यात्त्वत्पादप्रसादतः ।। २९३ ॥ १शीता गावः किरणा यस्य तस्मिश्चन्द्रे । २ रक्षित्रे ।३ अगाधः । ||श्रीनेमि नाथस्य | केवलोत्पत्तिः । ॥३१८॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420