Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 379
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३३३॥ अष्टमं पर्व दशमः |सर्गः श्रीअरिष्टनेमिजिनचरितम् । पद्मोऽप्यकथयत् स्वागोऽवोचद्यत् स्वामिनि त्वयि । कृष्णेनाहं पराभूतो जंबूभरतविष्णुना ।।७५ ।। रे दुरात्मन्नसमानविग्रहेति वदन् हरिः । पद्मं निर्वासयामास तद्राज्ये तत्सुतं न्यधात् ।। ७६ ।। कृष्णोऽप्यंभोधिमुत्तीर्य पांडवानेवमब्रवीत् । आपृच्छे सुस्थितं यावत्तावद्गंगामतीत भोः ॥७७ ॥ ततस्ते नावमारुह्य गंगाश्रोतोऽतिभीषणम् । द्वाषष्टियोजनपृथूत्तीर्यान्योऽन्यमदोऽवदन् ॥७८ ।। द्रक्ष्यामोऽद्य बलं विष्णोर्नीरत्रैव निर्धायताम् । विना नावं कथं गंगाश्रोतोऽसावुत्तरिष्यति ॥ ७९ ॥ एवं ते कृतसंकेता निलीयास्थुर्नदीतटे । इतश्च कृतकृत्यः सन् कृष्णोऽप्यागात्सरिद्वराम् ।। ८०॥ तत्रापश्यन् हरिर्नावं दोष्ण्येकस्मिन् सवाजिनम् । रथं न्यस्यान्यदोष्णांभस्तरीतुमुपचक्रमे ।। ८१ ॥ गंगामध्ये गतः श्रान्तः कृष्णश्चैवमचिंतयत् । अहो पांडुसुताः शक्ता गंगा तेरुस्तरी विना ।। ८२ ।।। गंगा तच्चिन्तितं ज्ञात्वा ददौ स्ताघं क्षणादपि । उत्ततार ततस्तां च सुखेनैव जनार्दनः ।। ८३ ॥ युष्माभिः कथमुत्तीर्णा गंगेत्यूचे स पांडवान् । नावोत्तीर्णास्माभिरिति प्रत्यूचुस्तेऽपि शाङ्गिणम् ।। ८४ ॥ वालयित्वा न किं प्रैषि नौरित्युक्तास्तु शाह्मिणा । तेऽवोचन् प्रेषिता नौर्न युष्मदोजः परीक्षितुम् ।। ८५ ।। कृष्णोऽप्युवाच कुपितो मदोजो ज्ञास्यथाधुना । न ज्ञातमब्धितरणेऽमरकंकाजयेऽपि च ।। ८६ ॥ इत्युक्त्वा लोहदंडेन रथास्तेषां ममर्द सः । अभूच्च पत्तनं तत्र नामतो रथमर्दनम् ॥ ८७ ।। १ स्वापराध । २ इणक्-गतौ पंचमी-मध्यम पुरुष बहुवचनम् । ३ शतृ प्रत्ययान्तम् । | पाण्डवैः कृष्णबलपरीक्षणम् । ।।३३३ ।।

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420