________________
त्रिषष्टिशलाकापुरुषचरिते ॥३३३॥
अष्टमं पर्व दशमः |सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
पद्मोऽप्यकथयत् स्वागोऽवोचद्यत् स्वामिनि त्वयि । कृष्णेनाहं पराभूतो जंबूभरतविष्णुना ।।७५ ।। रे दुरात्मन्नसमानविग्रहेति वदन् हरिः । पद्मं निर्वासयामास तद्राज्ये तत्सुतं न्यधात् ।। ७६ ।। कृष्णोऽप्यंभोधिमुत्तीर्य पांडवानेवमब्रवीत् । आपृच्छे सुस्थितं यावत्तावद्गंगामतीत भोः ॥७७ ॥ ततस्ते नावमारुह्य गंगाश्रोतोऽतिभीषणम् । द्वाषष्टियोजनपृथूत्तीर्यान्योऽन्यमदोऽवदन् ॥७८ ।। द्रक्ष्यामोऽद्य बलं विष्णोर्नीरत्रैव निर्धायताम् । विना नावं कथं गंगाश्रोतोऽसावुत्तरिष्यति ॥ ७९ ॥ एवं ते कृतसंकेता निलीयास्थुर्नदीतटे । इतश्च कृतकृत्यः सन् कृष्णोऽप्यागात्सरिद्वराम् ।। ८०॥ तत्रापश्यन् हरिर्नावं दोष्ण्येकस्मिन् सवाजिनम् । रथं न्यस्यान्यदोष्णांभस्तरीतुमुपचक्रमे ।। ८१ ॥ गंगामध्ये गतः श्रान्तः कृष्णश्चैवमचिंतयत् । अहो पांडुसुताः शक्ता गंगा तेरुस्तरी विना ।। ८२ ।।। गंगा तच्चिन्तितं ज्ञात्वा ददौ स्ताघं क्षणादपि । उत्ततार ततस्तां च सुखेनैव जनार्दनः ।। ८३ ॥ युष्माभिः कथमुत्तीर्णा गंगेत्यूचे स पांडवान् । नावोत्तीर्णास्माभिरिति प्रत्यूचुस्तेऽपि शाङ्गिणम् ।। ८४ ॥ वालयित्वा न किं प्रैषि नौरित्युक्तास्तु शाह्मिणा । तेऽवोचन् प्रेषिता नौर्न युष्मदोजः परीक्षितुम् ।। ८५ ।। कृष्णोऽप्युवाच कुपितो मदोजो ज्ञास्यथाधुना । न ज्ञातमब्धितरणेऽमरकंकाजयेऽपि च ।। ८६ ॥ इत्युक्त्वा लोहदंडेन रथास्तेषां ममर्द सः । अभूच्च पत्तनं तत्र नामतो रथमर्दनम् ॥ ८७ ।। १ स्वापराध । २ इणक्-गतौ पंचमी-मध्यम पुरुष बहुवचनम् । ३ शतृ प्रत्ययान्तम् ।
| पाण्डवैः कृष्णबलपरीक्षणम् ।
।।३३३ ।।