SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३३२॥ | अष्टमं पर्व दशमः सर्गः श्रीअरिष्ट नेमिजिन चरितम् । इत्युक्तः स तथा चक्रे नमश्चक्रे च शाङ्गिणम् । शरण्यो वासुदेवोऽपि मा भैषीरित्युवाच तम् ।। ६२ ।। द्रौपदी चार्पयामास पांडवानां जनार्दनः । ववले च रथारुढः सह तैस्तेन वर्मना ।। ६३ ।। तदा च तत्र चंपायामुद्याने पूर्णभद्रके । भगवान् समवासार्षीन्मुनिसुव्रततीर्थकृत् ।। ६४ ।। कपिलस्तत्सभासीनो विष्णुः पप्रच्छ तं प्रभुम् । स्वामिन्ममेव कस्यायं शंखनादः श्रवोतिथिः ।। ६५ ।। शंखध्वनिः कृष्णविष्णोरेष इत्यर्हतोदिते । एकत्र किं हरी स्यातामित्यपृच्छत्स केशवः ।। ६६ ।। द्रौपदीपद्मकृष्णानां वृत्तान्तं भगवानपि । समाचख्यौ कपिलाय कपिलोऽप्येवमब्रवीत् ।। ६७ ।। जंबुद्वीपार्धभरतेशस्य कृष्णस्य नाथ किम् । भवाम्यहं स्वागतिकोऽभ्यागतस्यातिथेरिह ॥६८ ॥ स्वाम्यूचे न यथैकत्र द्वितीयोऽर्हन्न चक्रभृत् । न च विष्णुस्तथान्येन न मिलेत् कारणागतः ॥ ६९ ॥ श्रुत्वापीत्यर्हतो वाचं कपिलः कृष्णमीक्षितुम् । ययावब्धेस्तटे कृष्णरथसीमंतिताध्वनि ।।७० ।। ईक्षांचक्रे च कृष्णस्य मध्येऽम्भोनिधि गच्छतः । रजतस्वर्णपत्राभान् श्वेतपीतरथध्वजान् ॥७१ ॥ कपिलो विष्णुरेषोऽहमुत्कस्त्वां द्रुष्टुमागतः । तद्वलस्वेत्यक्षराढ्यं शंखं दध्मौ स शार्ङ्गभृत् ॥ ७२ ।। आगमाम वयं दूरं त्वया वाच्यं न किंचन । इति व्यक्ताक्षरध्वानं शंखं कृष्णोऽप्यपूरयत् ।।७३ ॥ तच्छंखध्वनिमाकर्ण्य ववले कपिलो हरिः । गत्वा कंकापुरी पद्म किमेतदिति चावदत् ।।७४ ॥ १ कर्णातिथिः । २ अद्यतन्यां उत्तम पुरुष बहुवचनम् । द्वयोर्वासु| देवयोः शंखनादमिलनम्। ।।३३२ ।।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy