________________
त्रिषष्टिशलाकापुरुषचरिते ॥३३१॥
अष्टमं पर्व दशमः
सर्गः
पत्वा जनार्दनःजा पद्मो वास्माभिः कसा
श्रीअरिष्टनेमिजिनचरितम् ।
स्वामिन् बलीयान् पद्मोऽयं बलवत्सैनिकावृतः । त्वयैव जय्यो नास्माभिः कुरुष्वेह यथोचितम् ॥ ४९ ।। कृष्णोप्यूचे जिता यूयं तदैव ननु पांडवाः । राजा पद्मो वयं वेति गदितं वचनं यदा ।। ५० ॥ राजाहमेव नो पद्म इत्युदित्वा जनार्दनः । युधि चचाल दध्मौ च पांचजन्यं महास्वनम् ।। ५१ ।। बलत्रिभागः पद्मस्य तच्छंखध्वनिनात्रुटत् । गति[गकुलस्येव सिंहनादेन सर्पता ।। ५२ ।। शाङ्गं चास्फालयच्छार्नी तस्यापि ध्वनिना पुनः । बलत्रिभागः पद्मस्यात्रुटदुर्बलरज्जुवत् ।। ५३ ।। अवशिष्टतृतीयांशबलः पद्मो रणांगणात् । प्रणश्यामरकंकायां प्रविवेश झगित्यपि ।। ५४ ।। लोहार्गलासनाथानि पिदधे गोपुराणि सः । कृष्णोऽपि प्रज्वलन् क्रोधादुत्ततार रथादथ ।। ५५ ॥ समुद्घातेन जज्ञे च नरसिंहवपुर्हरिः । क्रुद्धोऽन्तक इव व्यात्ताननदंष्ट्राभयंकरः ।। ५६ ॥ नर्दन्नत्यूर्जितं सोऽथ विदधे पाददर्दरम् । चकंपे वसुधा तेन हृदयेन सह द्विषाम् ॥५७ ।। प्राकाराग्राणि बभ्रंसुः पेतुर्देवकुलान्यपि । कुट्टिमानि व्यशीर्यन्त शाङ्गिणः पाददर्दरैः ।। ५८ ॥ गर्तेषु लिल्यिरे केऽपि केऽपि तोयेषु चाविशन् । निपेतुर्मूर्छिताः केऽपि तत्पुर्यां नृहरेर्भयात् ।। ५९ ॥ क्षम्यतां देवि रक्षास्मादन्तकादिव शाङ्गिणः । इति जल्पन् ययौ पद्मः शरणं द्रुपदात्मजाम् ।। ६० ।। साप्यूचे मां पुरस्कृत्य स्त्रीवेशं विरचय्य च । प्रयाहि शरणं कृष्णं तथा जीवसि नान्यथा ।।६१ ।।
| कृष्णेन द्रौपदीहर्तुः पराजयः ।
॥३३१ ॥
१ पादघातम् ।