________________
त्रिषष्टिशलाकापुरुषचरिते ॥३३०॥
अष्टमं पर्व | दशमः
सर्गः श्रीअरिष्ट
नेमिजिन
चरितम् ।
कृष्णोप्यूचे मेति कार्षीः पांडवानां ममापि च । षण्णां रथानां तोयान्तर्देहि मार्गमनाहतम् ।।३६ ॥ यथा तत्र स्वयं गत्वा तं वराकं विजित्य च । आनयामो वयं कृष्णां पन्था ह्येष यशस्करः ॥३७॥ सुस्थितोऽपि तथा चक्रे कृष्णोऽपि हि सपांडवः । अब्धि स्थलमिवोल्लंघ्यामरकंकां ययौ पुरीम् ॥ ३८ ॥ स्थित्वा तद्बहिरुद्यानेऽनुशिष्य हरिणा स्वयम् । दारुकः प्रेषितो दौत्ये ययौ पद्मनृपान्तिके ।।३९ ।। तत्पादपीठं पापेनाक्रामन् भूकुटिभीषणः । कुन्ताग्रेणार्पयँल्लेखं दारुकः पद्ममब्रवीत् ॥ ४०॥ पाण्डवानां वासुदेवसहायानां प्रिया त्वया । जंबूद्वीपस्य भरतादानीता द्रुपदात्मजा ।। ४१ ।। दत्तमार्गोऽम्बुधिनापि कृष्णः पांडुसुतैः सह । आगतोऽस्त्यर्प्यतां कृष्णां जिजीविषसि यद्यरे ॥ ४२ ॥ पद्मोऽप्यूचे स तत्रैव वासुदेव इह त्वहो । आत्मषष्ठो मम कियान् गच्छ सज्जय तं युधि ।। ४३ ॥ अभ्येत्य तद्वचः कृष्णायाचख्यौ दारुकोऽपि हि । आगाधुयुत्सुः पद्मोऽपि संनह्य सह सेनया ॥ ४४ ।। तस्यापतत्सु सैन्येषु वारिधेरिव वीचिषु । स्मेराक्षः पुंडरीकाक्षः पांडवानित्यभाषत ।। ४५ ॥ योत्स्यन्ते किं भवन्तोऽत्र सह पद्मन भूभुजा । अथवा युध्यमानं मां प्रेक्षिष्यन्ते रथस्थिताः ॥ ४६ ॥ तेऽप्यूचुः सह पद्मन वयं योत्स्यामहे प्रभो । राजाद्य पद्मनाभो वा वयं चेति कृताश्रवाः ॥४७॥ ततश्च ते युयुधिरे पद्मन पृथिवीभुजा । जिताश्च पुनरप्येत्य वासुदेवमदोऽवदन् ॥ ४८ ॥ १ दूतकर्मणि । २ आत्मना षष्ठः कृष्णः ।
द्रौपद्यानयनहितोः गतानां पाण्डवानां पराजयः ।
।।३३०॥