________________
त्रिषष्टिशलाकापुरुषचरिते ॥३२९॥
| अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
किं दृष्टा द्रौपदी क्वापीत्यनुयुक्तः स विष्णुना । ऊचेऽगां धातकीखंडेऽमरकंकापुरीमहम् ।।२३ ॥ तत्र भूपस्य पद्मस्य सद्मनि द्रुपदात्मजाम् । अद्राक्षमहमित्युक्त्वा जगामोत्पत्य सोऽन्यतः ।। २४ ।। बभाषे पांडवान् कृष्णः पद्मेन द्रौपदी हृता । एष तामाहरिष्यामि मा खिद्यध्वं मनागपि ॥ २५ ॥ ततः सपांडवो विष्णुर्महानीकसमावृतः । जगाम मागधाभिख्यप्राचीनांभोधिरोधसि ।। २६ ॥ ऊचुश्च पांडवाः कृष्णं स्वामिन्नत्यन्तभीषणः । संसार इव चापारः पारावारोऽयमुद्धतः ।। २७ ।। मग्नास्तिष्ठन्ति कुत्रापि लेष्टुवत् पर्वता इह । तिष्ठन्ति पर्वतप्रायाण्यत्र यादांसि कुत्रचित् ॥ २८ ॥ कृतेशोषप्रतिज्ञश्च वाडवोऽत्रास्ति कुत्रचित् । वेलन्धरसुराश्चात्र कैवर्ता इव कुत्रचित् ।। २९ ॥ उद्वर्त्यन्तेऽत्रोर्मिभिश्च कमंडलुनिभा घनाः । अलंघ्यो मनसाप्येष लंघनीयः कथं ततः ॥३०॥ का वश्चिन्तेति तानुक्त्वा कृष्णः कृष्णेतराशयः । तीरे निषद्य तपसाराधयामास सुस्थितम् ।।३१ ॥ आविर्भूय सुरः सोऽपि किं करोमीत्यभाषत । कृष्णोऽप्यूचे पार्थिवेन पद्मन द्रौपदी हृता ॥३२ ।। सा यथा धातकीखंडद्वीपादानीयते द्रुतम् । तथा कुरु सुरश्रेष्ठ लवणोदधिदैवत ।। ३३ ॥ देवोप्यूवाच पद्मस्य पूर्वसंगतनाकिना । हत्वा समर्पिता कृष्ण तद्वत्तामर्पयामि वः ॥ ३४ ॥ यद्वा नेदं रोचते वस्ततः सबलवाहनम् । क्षिपाम्यंभोनिधौ पद्म द्रौपदीमर्पयामि वः ।। ३५ ॥ १ पृष्टः । २ समुद्रः । ३ कृता शोषे शोषणे प्रतिज्ञा येन सः ।
द्रौपदीहरणम् ।
।।३२९ ॥