________________
त्रिषष्टिशलाका
पुरुषचरि
।।३२८ ।।
अथेप्सुर्द्रौपदीं पद्मनाभः पातालवासिनम् । तपसा साधयामास पूर्वसंगतिकं सुरम् ।। १० ।। प्रत्यक्षीभूतममरं किं करोमीति वादिनम् । पद्मस्तमूचेऽत्रानीय द्रौपदीं मे समर्पय ॥ ११ ॥ सोऽप्याख्यत्पांडवान् मुक्त्वा द्रौपदी नान्यमिच्छति । त्वन्निर्बन्धादानयामीत्युक्त्वा गजपुरे ययौ ॥ १२ ॥ ततोऽवस्वापनीं दत्वा प्रसुप्तां द्रौपदीं निशि । अपहृत्य समानीयार्पयत् पद्माय सोऽमरः ।। १३॥ प्रबुद्धा द्रौपदी तत्राप्रेक्षमाणा निजां स्थितिम् । किं स्वप्नमिन्द्रजालं वेत्यामृशाद्विधुरा सती ।। १४ ।। बभाषे पद्मनाभस्तां मा भैषीर्मृगलोचने । आनायिता मयासि त्वं भुंक्ष्व भोगान्मया सह ।। १५ ।। द्वीपोऽयं धातकीखंडोऽमरकंका पुरी त्वसौ । राजाहं पद्मानाभोऽत्र बुभूषुस्तेऽधुना पतिः ॥ १६ ॥ प्रत्युत्पन्नमतिर्द्रौपद्यूचे मासान्तरे यदि । कोऽपि नैष्यति मदीयः करिष्ये त्वद्वचस्तदा ।। १७ ।। अशक्यात्रागतिर्नृणां जंबूद्वीपजुषामिति । विमृशंस्तद्वचो मेने पद्मश्छद्मपरोऽपि हि ।। १८ ।। न भोक्ष्ये मासपर्यन्तेऽप्यहं पतिं विना कृता । द्रौपदीत्यभिजग्राह सतीव्रतमहाधना ।। १९ ।। पांडवा अप्यपश्यन्तः प्रभाते द्रौपदीं गृहे । भृशमन्वेषयामासुर्जलस्थलवनादिषु ।। २० ॥ तद्वार्तामपि ते नापुस्तन्माताख्यच्च शार्ङ्गिणे । स एव शरणं तेषां बन्धुश्च विधुरेषु सः ।। २१ ।। कृष्णोऽपि कृत्यमूढोऽस्थाद्यावत्तावत्समाययौ । स नारदमुनिर्द्रष्टुं तमनर्थं स्वयं कृतम् ॥ २२ ॥ १ पूर्वमित्रम् । २ स्थानम् ।
1
**
अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
द्रौपदीहरणम् ।
।। ३२८ ।।