________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥३२७॥
दशमः सर्गः ।
इतश्च पांडवाः कृष्णप्रसादात् स्वपुरे स्थिताः । वारकेण प्रमुदिता द्रौपद्या सह रेमिरे ॥ १ ॥ द्रौपद्याश्चान्यदा वेश्मन्याययौ नारदो भ्रमन् । तया त्वविरतोऽसावित्यवज्ञाय न सत्कृतः ।। २ । भाविनी दुःखभागेषा कथं न्विति निचिन्तयन् । निर्ययौ तद्गृहात् क्रुद्धो विरुद्धो नारदो मुनिः ।। ३ ।। अत्र कृष्णभयात्तस्या अपश्यन्नप्रियावर्हम् । जगाम धातकीखंडभरते नारदस्ततः ॥ ४ ॥ तत्र चंपाजुषो विष्णोः कपिलाख्यस्य सेवकम् । पुर्यां सोऽमरकंकायां स्त्रीलोलं पद्ममभ्यगात् ।। ५ ।। स राजोत्थाय नीत्वान्तःपुरे स्वाः स्त्रीः प्रदर्शयन् । ऊचे नारदमीदृश्यो दृष्टाः किं क्वापि योषितः ॥ ६ ॥ सेत्स्यत्यर्थो ममानेनेत्यामृशन्नारदोऽवदत् । कूपमंडूकवद्राजन् किमेताभिः प्रमोदसे ॥ ७ ॥ जंबूद्वीपस्य भरते नगरे हस्तिनापुरे | पांडवानां महिष्यस्ति द्रौपदीति पदं श्रियाः ॥ ८ ॥ तस्याः पुरस्तादेता हि चेट्य एवाखिला अपि । इत्युदित्वा नारदर्षिरुत्पत्यागमदन्यतः ।। ९ ।।
१ अप्रियकरम् ।
अष्टमं पर्व
दशमः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
द्रौपदी
हरणम् ।
।। ३२७ ।।