________________
त्रिषष्टिशलाका
अष्टमं पर्व दशमः सर्गः श्रीअरिष्ट
पुरुषचरिते
॥३३४॥
नेमिजिन
चरितम् ।
ततो निर्विषयांश्चक्रे पांडवान् कंससूदनः । संभूय शिबिरेणाथ द्वारका नगरी ययौ ।। ८८ ॥ पांडवाः स्वपुरं गत्वा तत् कुन्त्या आचचक्षिरे । कुन्त्यपि द्वारकां गत्वा वासुदेवमभाषत ।। ८९ ।। त्वया निर्वासिताः कुत्र तिष्ठन्तु मम सूनवः । अस्मिन् भरतवर्षाढे न सा भूर्भवतो न या ।।९० ॥ कृष्णोऽप्यूचे दक्षिणाब्धे रोधस्यभिनवां पुरीम् । निवेश्य पांडुमथुरां वसन्तु तव सूनवः ॥९१ ॥ कुन्ती गत्वा तदाचख्यौ सुतेभ्यः कृष्णशासनम् । तेऽपीयुः पांडुविषयं वार्धिवेलापवित्रितम ।। ९२ ॥ कृष्णोऽपि हास्तिनपुरेऽभिषिषेच परीक्षितम् । पौत्रं जामेः सुभद्राया अभिमन्युतनूद्भवम् ।। ९३ ॥ इतश्च भगवान्नेमिः पावयन् पृथिवीतलम् । क्रमेण भद्दिलपुरं पुरप्रवरमीयिवान् ।।९४ ॥ आसंश्च तस्मिन्नगरे सुलसानागयोः सुताः । देवक्युदरजाः षट् ते ये दत्ता नैगमेषिणा ॥९५ ।। तेऽथ द्वात्रिंशतं कन्याः प्रत्येकं परिणिन्यिरे । श्रीनेमिना बोधितास्तु तत्पावें जगृहुव्रतम् ॥ ९६ ॥ सर्वे चरमदेहास्ते द्वादशांगधराः क्रमात् । विजहुः स्वामिना सार्धं तपस्यन्तस्तपो महत् ।।९७ ।। इतश्च भगवान्नेमिर्विहरन् द्वारकां ययौ । सहस्रामवणे तत्रोपवने समवासरत् ।। ९८ ।। षट् च ते देवकीपुत्राः षष्ठान्ते पारणार्थिनः । त्रिधा युगलिनौ भूत्वा प्राविशन् द्वारिका पुरीम् ।। ९९ ।। तेभ्योऽनीकयशोऽनन्तसेनौ द्वौ देवकीगृहम् । गतौ तौ वीक्ष्य कृष्णाभावित्यमोदत देवकी ॥१००॥ सा प्रत्यलाभयत् सिंहकेसरैर्मोदकोत्तमैः । तौ जग्मतुस्ततश्चान्यौ तत्सौदर्यावुपेयतुः ॥१०१ ॥
| देवकन्या | स्वषट्सुत| परिज्ञानम् ।
॥३३४ ॥