________________
त्रिषष्टिशलाकापुरुषचरिते ॥३३५॥
अष्टमं पर्व दशमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
अजितसेननिहतशत्रू नाम्ना महामुनी । सा प्रत्यलाभयत्तावप्यथान्यौ समुपेयतुः ।। १०२ ।। नाम्ना देवयशःशत्रुसेनौ श्रमणपुंगवौ । तौ च नत्वा देवकीथमपृच्छद्रचिताञ्जलिः ॥ १०३ ।। भूयो भूयोऽपि दिङ्मोहात् किं नु यूयमिहागताः । किं वा मे मतिमोहोऽयं यूयं न हि त एव हि ॥ १०४ ।। अथवा स्वर्गकल्पायामप्यस्यां पुरि संपदा । नोचितं भक्तपानादि प्राप्नुवन्ति महर्षयः ।।१०५ ॥ तावूचतुर्न दिङ्मोहोऽस्माकं षट् सोदरा वयम् । भद्दिलपुरवास्तव्याः सुलसानागयोः सुताः ।। १०६ ।। धर्म श्रुत्वा नेमिपार्श्वे प्राव्रजाम वयं हि षट् । भूत्वा च त्रीणि युग्मानि क्रमात्ते गृहमागताः ।। १०७ ॥ ततश्च देवकी दध्यौ कथं नाम षडप्यमी । कृष्णस्य सहशा एवं तिला अपि तिलस्य न ।। १०८ ।। जीवदष्टसुता चाहमतिमुक्तकसाधुना । पुराख्यातास्मि तेनैते किं स्युर्मम तनूरुहाः ॥ १०९ ।। विमृश्यैवं द्वितीयेऽह्नि तत्प्रष्टुं नेमिनोऽन्तिके । ययौ समवसरणे देवकी देवनिर्मिते ॥११०॥ ज्ञात्वा स्वाम्यपि तद्भावमूचे तेऽमी सुताः खलु । समर्पिताः सुलसाया जीवन्तो नैगमेषिणा ।। १११ ॥ सा तथा तत्र षट् साधून् पश्यत्युत्प्रसवस्तनी । ववन्दे च बमाषे च साधु दृष्टाश्च हे सुताः ।। ११२ ।। राज्यं प्रकृष्टमथवा दीक्षा मत्कुक्षिजन्मनाम् । किं त्वेतन्मम खेदाय स्वयं नैकोऽपि लालितः ।। ११३ ॥ भगवानप्यथोवाच मुधा मा ताम्य देवकि । पूर्वकर्मफलं ह्येतदिह जन्मन्युपस्थितम् ॥११४ ।। १ ते एव कृष्णस्य सदृशास्तिला अपि तिलस्य सध्शा न । २ अष्टमः सुतो भावीत्यपेक्षयोक्तमिदम् ।
देवकन्या स्वषट्सुतपरिज्ञानम् ।
॥३३५ ।।