________________
अष्टमं पर्व दशमः
त्रिषष्टिशलाकापुरुषचरिते ॥३३६॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
सपल्याः सप्त रत्नानि त्वमाहार्षीः पुरा भवे । रुदत्याश्चार्पितं तस्या रत्नमेकं पुनस्त्वया ।। ११५ ॥ तच्छुत्वा देवकी निन्दत्यात्मप्राग्जन्मदुष्कृतम् । ययौ स्वगृहमस्थाच्च पुत्रजन्माभिकांक्षिणी ।।११६ ।। किमेवं विमना मातरित्युक्ता शापाणिना । सा बभाषे निःफलेन जीवितव्येन किं मम ।। ११७ ॥ त्वं वर्धितो नन्दगृहे नागधाम्नि च तेऽग्रजाः । कलकंठ्येव नापत्यं मया किमपि लालितम् ।। ११८ ॥ इच्छामि तत्सुतं वत्स बाललालनकौतुकात् । पशवोऽपि हि धन्यास्ते स्वयं स्वापत्यलालकाः ।। ११९ ।। एष ते पूरयाम्यर्थमित्युक्त्वा प्रययौ हरिः । आराधयामास शक्रसेनान्यं नैगमेषिणम् ।। १२० ।। देवोऽप्युवाच ते मातुर्भविष्यत्यष्टमः सुतः । उद्भिन्नयौवनो धीमान् स परं प्रव्रजिष्यति ।। १२१ ॥ अनु तद्वचनं स्वर्गाच्चयुत्वा देवो महर्द्धिकः । देवक्याः कुक्षिमायासीज्जज्ञे च समये सुतः ॥ १२२ ।। नाम्ना गजसुकुमालं रुपात् कृष्णमिवापरम् । तं स्वयं लालयामास देवकी देवसन्निभम् ।। १२३ ।। सोऽत्यन्तवल्लभो मातुर्धातुश्च प्राणसन्निभः । द्वयोर्ने।न्दीवरेन्दुः क्रमेण प्राप यौवनम् ।। १२४ ।। प्रभावतीमभिधया द्रुमस्य पृथिवीपतेः । कन्यां गजसुकुमालः पित्रादेशादुपायत ।। १२५ ।। सोमशर्मद्विजसुतां सोमाख्यां क्षत्रियाभवाम् । सोऽनिच्छन्नप्युपयेमे मातृभ्रात्रोर्निर्देशतः ।। १२६ ॥ तदैव तत्र समवासार्षीन्नेमिस्तदन्तिके । धर्म गजसुकुमालः सभार्योऽवहितोऽशृणोत् ।। १२७ ।। १ कलकंठी भाषायां "कोयल" इति ख्यातम् तदपत्यानि काक्या लाल्यन्त इति लोकप्रसिद्धम् ।
देवकन्या
देवप्रभावेण पुत्रप्राप्तिः ।