________________
त्रिषष्टिशलाका
पुरुषचरिते ॥३३७॥
ततश्चोत्पन्नवैराग्यः पत्नीभ्यां सहितो गजः । पितरौ समनुज्ञाप्य स्वामिपार्श्वेऽग्रहीद्व्रतम् ॥ १२८ ॥ गजे प्रव्रजिते चाथ तद्वियोगासहिष्णवः । पितरौ कृष्णमुख्याश्च भ्रातरो रुरुदुस्तराम् ।। १२९ ।। सायं स स्वामिनं पृष्ट्वा श्मशाने प्रतिमां व्यधात् । बहिर्गतेन दृष्टश्च ब्रह्मणा सोमशर्मणा ।। १३० ।। सोमशर्माचिन्तयच्च यत्पाखंडचिकीरयम् । विडंबनाय मत्पुत्रीमुपयेमे दुराशयः ।। १३१ ।। इति क्रुद्धस्तच्छिरसि सोमशर्मा विरुद्धधीः । ज्वलच्चितांगारपूर्णं घटीकंठमतिष्ठपत् ॥ १३२ ॥ तेनातिदह्यमानोऽपि सोऽधिसेहे समाहितः । दग्धकर्मेन्धनो जातकेवलश्च ययौ शिवम् ॥ १३३ ॥ प्रातश्चचाल कृष्णोऽपि रथस्थः सपरिच्छदः । द्रष्टुं गजसुकुमालमुत्कंठापूर्णमानसः ।। १३४ ।। निर्गच्छन् द्वारकायाश्च बहिरैक्षिष्ट स द्विजम् । वहन्तमिष्टकां मूर्ध्ना वृद्धं देवालयं प्रति ।। १३५ ।। तस्यानुकंपया कृष्ण आपाकोत्स्वयमिष्टकाम् । निन्ये देवकुले तस्मिन् लोकोऽनैषीच्च कोटिशः ।। १३६ ॥ कृतार्थं तं द्विजं कृत्वा ययौ नेमिं जनार्दनः । न चापश्यद्गजं तत्र मुक्तं निधिमिवात्मना ॥ १३७ ॥ क्व मे भ्राता गज इति पप्रच्छ स्वामिनं हरिः । सोमद्विजाद्गजमोक्षमाचख्यौ भगवानपि ।। १३८ ॥ ततो मुमूर्छ गोविंदो लब्धसंज्ञः पुनः प्रभुम् । पप्रच्छ भ्रातृवधको ज्ञातव्यः स कथं मया ।। १३९ ।। भगवानप्यभाषिष्ट मा कुपः सोमशर्मणे । त्वद्भ्रातुः स हि सहायः सद्यो मोक्षस्य साधने ।। १४० ।। १ स्फुटितघटकपालम् । २ यत्रेष्टकाः पच्यन्ते तत् स्थानमापाकमिति कथ्यते ।
अष्टमं पर्व दशमः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
गज
|सुकुमालदीक्षा, उपसर्गः,
केवल मोक्षश्च ।
।। ३३७ ।।