________________
त्रिषष्टिशलाका
पुरुषचरिते
॥३३८ ॥
सिद्धिः स्याच्चिरसाध्यापि सहायवशतः क्षणात् । यथा त्वयाद्य वृद्धस्य ब्राह्मणस्येष्टकार्पणात् ॥ १४१ ॥ सोमशर्मा न कुर्याच्चेत् कर्म त्वद्भ्रातुरीदशम् । तत्कथं तस्य सिद्धिः स्यात्कालक्षेपं विनैव हि ।। १४२ ।। स्वमुद्बद्धुं व्रजंस्त्वां च विशन्तं पुरि वीक्ष्य यः । भिन्नमूर्धा म्रियते तं जानीथा भ्रातृघातकम् ।। १४३ ।। ततः कृष्णो रुदन् भ्रातुः संस्काराद्यकरोत् स्वयम् । प्राविशच्च पुरीं सोममैक्षिष्ट च तथा मृतम् ॥ १४४ ॥ बन्धयित्वा पादयोस्तं पुर्यामभ्रमयन्नरैः । बहिश्च क्षेपयामास गृध्रादीनां नवं बलिम् ।। १४५ ।। तेन शोकेन यदवो बहवो नेमिसन्निधौ । प्रवव्रजुर्दशार्हाश्च वसुदेवं विना नव ।। १४६ ।।
शिवा च स्वामिनो माता सप्त चापि सहोदराः । अन्येऽपि हरिकुमाराः प्राव्रजन्नन्तिके प्रभोः ॥ १४७ ॥ जीत्यपि संविना प्राव्राजीत्स्वामिनोऽन्तिके । नन्दकन्यैकनासा च बह्व्यश्चान्या यदुस्त्रियः ।। १४८ ।। कन्योद्वाहप्रत्याख्यानाभिग्रहं हरिराददे । सर्वा दुहितरस्तस्य प्राव्रजन् स्वामिनोऽन्तिके ।। १४९ ।। विना च कनकवतीं रोहिणीं देवकीं तथा । वसुदेवस्य पल्योऽपि प्राव्रजन्नेमिसन्निधौ । १५० ।। गृहेऽपि कनकवत्याश्चिन्तयन्त्या भवस्थितिम् । उत्पेदे केवलज्ञानं सद्यस्त्रुटितकर्मणः ।। १५१ ।। नेमिना ज्ञापितैर्देवैः सा क्लृप्तमहिमा ततः । प्रव्रज्यां स्वयमादत्त ययौ च स्वामिनोऽन्तिके ॥। १५२ ।। दृष्ट्वा नेमिं वनेऽगच्छद्दिनानि त्रिंशतं ततः । विहितानशना मृत्वा मोक्षं कनकवत्यगात् ।। १५३ ।। नैषधिः सागरचन्द्रो रामपौत्रो विरक्तधीः । अणुव्रतधरोऽग्रेपि तदाभूत् प्रतिमाधरः ।। १५४ ॥
अष्टमं पर्व
दशमः सर्गः
श्री अरिष्टनेमिजिनचरितम् ।
गज
सुकुमाल
शोकेन
बहुना
यादवानां
दीक्षा ।
।। ३३८ ।।