________________
त्रिषष्टिशलाकापुरुषचरिते ॥३३९॥
अष्टमं पर्व दशमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
बहिर्गत्वोपस्मशानं कायोत्सर्ग दधौ च सः । नभःसेनेन दृष्टश्च तच्छिद्रान्वेषिणा सदा ।। १५५ ।। तमूचे च नभःसेनः पाखडिन् किं करोष्यदः । लभस्व कमलामेलाहरणच्छद्मनः फलम् ।। १५६ ॥ इत्युक्त्वा तस्य शिरसि निधाय घटकंठकम् । अपूरयच्चितांगारैर्नभःसेनो दुराशयः ॥ १५७ ।। तत्सम्यगधिसह्याशु विपन्नः सागरः सुधीः । स्मृतपञ्चपरमेष्ठिनमस्कारो दिवं ययौ ।। १५८ ॥ सदस्यूचेऽन्यदा शक्रो यत्कृष्णो गुणकीर्तनम् । दोषान् विहाय कुरुते नीचयुद्धैर्न युध्यते ।। १५९ ॥ तद्वचोऽश्रद्दधत्कश्चिदागाद्वारवती सुरः । तदा च स्वेच्छया रन्तुं रथस्थः प्राचलद्धरिः ।। १६० ॥ विचक्रे तेन देवेन कृष्णांगः श्वा मृतः पथि । दुर्गन्धेनाखिलं लोकं बाधमानोऽतिदूरतः ।। १६१ ॥ तं प्रेक्ष्य केशवोऽवोचदहो कृष्णतनोः शुनः । अस्यास्ये पांडुरा दंताः शोभन्ते सुतराममी ।। १६२ ।। देवोऽथाश्वहरीभूयाश्वरत्नं शाह्मिणोऽहरत् । प्रधाविताननुपदं कृष्णसैन्याञ्जिगाय च ।। १६३ ।। ततोऽधावत् स्वयं कृष्णो नेदीयानब्रवीच्च तम् । किं हरस्यश्वरत्नं मे मुञ्चेदानी क्वयासि भोः ।। १६४ ।। देवोऽप्युवाच मां युद्धे विजित्याश्वं गृहाण भोः । कृष्णोऽप्यूचे रथं तर्हि त्वमादत्स्व रथी ह्यहम् ।।१६५ ॥ देवोऽप्युवाच पर्याप्तं रथेनेभादिना च मे । युद्धैश्च बाहुयुद्धाद्यैः कुरु किं तु युताहवम् ।। १६६ ॥ प्रत्यभाषत गोविन्दो जितोऽस्मि नय वाजिनम् । न जातु नीचयुद्धेन युध्ये सर्वात्ययेऽपि हि ।। १६७ ॥ १ मिलितयुद्धम् । २ सर्वनाशेऽपि ।
शक्रेण कृता कृष्णप्रशंसा देवपरीक्षा
॥३३९ ।।