________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४०॥
| अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
तुष्टोऽथ सोऽमरः शक्रवृत्तान्ताख्यानपूर्वकम् । वरं वृणु महाभागित्यवोचत जनार्दनम् ।। १६८ ।। देवं कृष्णोऽप्यभाषिष्ट संप्रति द्वारिका पुरी । रोगोपसर्गर्बहुला तच्छान्त्यै किञ्चिदर्पय ।। १६९ ।। कृष्णायादात् सुरो भेरीमाख्यच्च यदियं त्वया । षण्मास्यन्ते षण्मास्यन्ते वादनीयात्मनः पुरी ।। १७० ।। अस्याः श्रुतेन शब्देनोपसर्गाः प्राक्तना हरे । क्षयं यास्यन्त्यथ नवा षण्मासी नैव भाविनः ।। १७१ ॥ इत्युक्त्वा स ययौ देवस्तां भेरी केशवोऽपि हि । तथैव वादयामास रुक्छान्तिश्चाभवत् पुरि ।। १७२ ।। भेरीख्यातिमथ श्रुत्वा कोऽपि दाहज्वरार्दितः । आगाद्देशान्तरादाढ्यो भेरीपालमुवाच च ।। १७३ ।। द्रव्यलक्षं गृहाणेदमुपकाराय मेऽनघ । भेरीखंडं पलमात्रं विश्राणय कृपां कुरु ।। १७४ ।। भेरीपालोऽप्यर्थलुब्धस्तत्खंडं तस्य दत्तवान् । भेरी चन्दनखंडेनापूरिष्ट श्लिष्टसन्धिना ।। १७५ ।। सोऽन्येभ्योऽपि ददावेवमर्थलुब्धस्तथा यथा । चन्दनच्छेदकन्थाभृत् सा भेरी मूलतोऽपि हि ।। १७६ ॥ अन्यदा त्वशिवे जाते शाभृत्तामवादयत् । सभामपि न तन्नादोऽत्यगान्मशकनादवत् ।। १७७ ।। किमेतदिति कृष्णेन पृष्टाः प्रत्ययिता नरा । कन्थीकृतां रक्षकेण तां भेरीमाचचक्षिरे ।। १७८ ।। तमारक्षमहन् कृष्णो भेरीमन्यां ततोऽमरात् । लेभे चाष्टमभक्तेन महद्भिः किं दुरासदम् ।। १७९ ॥ तां भेरी वादयामास रोगशान्त्यै जनार्दनः । वैद्यावयादिशद्धन्वन्तरिवैतरणी तथा ।। १८० ॥ तत्र वैतरणिर्भव्यश्चिकित्सां यस्य योचिता । तामाख्यायाकरोत्तस्य ददौ स्वमपि भेषजम् ।। १८१ ।।
रोगापहारिणी दिव्यभेरी।
॥३४० ॥