________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४१॥
अष्टमं पर्व दशमः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
धन्वन्तरिस्तु विदधे चिकित्सां पापसंयुताम् । अस्माकं विहितं नेदमिति तं साधवोऽभ्यधुः ।। १८२ ।। सोऽपि प्रतिबभाषे तान् साधुयोग्यो मया न हि । आयुर्वेदः कोऽप्यपाठिमा स्म कृध्वं वचो मम ।। १८३ ॥ एवं द्वावपि तौ वैद्यौ पुर्यां तत्राचिकित्सताम् । श्रीनेमि चान्यदापृच्छत् कृष्णः क्व गतिरेतयोः ॥ १८४ ॥ अथाचचक्षे भगवान् सप्तम्यां नरकावनौ । अप्रतिष्ठानमावासं वैद्यो धन्वन्तरिर्गमी ।। १८५ ।। वैद्यो वैतरणिविन्ध्यवने भावी प्लवङ्गमः । उद्यौवनो यूथपतिस्तत्रैव च भविष्यति ।। १८६ ॥ वने तत्रैकदा सार्थेनागमिष्यन्ति साधवः । तेष्वेकः श्रमणः पादे भग्नशल्यो भविष्यति ।। १८७ ॥ प्रतीक्ष्यमाणान् सोऽन्यर्षीन् वक्ष्यत्येवं यदत्र माम् । मुक्त्वा यातान्यथा सर्वे सार्थभ्रष्ट मरिष्यथ ।। १८८ ॥ तं छायास्थंडिले मुक्त्वा ते प्रयास्यन्ति साधवः । तत्पादशल्यमाक्रष्टुमक्षमा दीनचेतसः ।। १८९ ।। कपियूथपतिः सोऽपि तत्रैष्यत्यथ तं मुनिम् । दृष्ट्वा किलकिलारावं करिष्यन्त्यग्रवानराः ॥ १९० ॥ तन्नादरुष्टो यूथेशः सोऽग्रे स्थास्यति तमृषिम् । प्रेक्ष्य ध्यास्यति कुत्रेहग्जनं वीक्षितपूर्व्यहम् ।। १९१ ॥ स्मरिष्यति ततः पूर्वजाति स्वां तच्च वैद्यकम् । गिरेर्विशल्यारोहिण्यावानेष्यत्यौषधी ततः ।। १९२ ।। विशल्यां दशनैः पिष्ट्वा पादे तस्य निधास्यति । सद्यो विशल्यं तत्पादं रोहिण्यारोहयिष्यति ॥ १९३ ।। द्वारवत्यां वैतरणिवैद्योऽभूवं पुरा ह्यहम् । लिखिष्यत्यक्षराण्येवं मुनेस्तस्य पुरश्च सः ॥ १९४ ।। तच्चरित्रं श्रुतपूर्वी मुनिर्धर्म गदिष्यति । त्र्यहं कृत्वा कपिः प्रायं सहस्रारे गमिष्यति ॥१९५ ॥
मुनिशुश्रूषाप्रभावः।
।।३४१ ।।