________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४२॥
अष्टमं पर्व | दशमः | सर्गः | श्रीअरिष्ट| नेमिजिनचरितम् ।
स द्रक्ष्यत्यवधिज्ञानात् प्रायस्थस्यात्मनः शवम् । नमस्कारान् प्रयच्छन्तमभ्यर्णस्थं मुनिं च तम् ।। १९६ ।। भक्तिमानमरस्तं च मुनि नत्वा वदिष्यति । त्वत्प्रसादेन देवर्द्धिर्महतीयं ममाभवत् ।। १९७ ॥ स्वसाधुभिस्तं च साधुं स नीत्वा योजयिष्यति । स साधुस्तां कपिकथां साधूनां कथयिष्यति ।। १९८ ।। तच्छुत्वा श्रद्दधद्धर्म नेमि नत्वा ययौ हरिः । विहर्तुमन्यतोऽगच्छत्ततश्च भगवानपि ।। १९९ ।। अन्यदा प्रावृडारंभे जगदाप्यायकोऽब्दवत् । द्वारकायां नेमिनाथ उपेत्य समवासरत् ।। २०० ।। शुश्रूषमाणस्तं कृष्णो बभाषे भगवन् कथम् । विहरध्वे न वर्षासु यूयमन्येऽपि साधवः ॥२०१॥ स्वामी बभाषे वर्षासु नानाजीवाकुला मही । जीवाभयप्रदास्तत्र सञ्चरन्ति न साधवः ॥ २०२ ।। कृष्णो इत्युवाच यद्येवं गच्छदागता मया । भूयाञ्जीवक्षयो भूयःपरिवारेण जायते ।। २०३ ।। तद्वर्षासु बहिर्गेहान्निःसरिष्यामि न ह्यहम् । अभिगृह्येति गत्वा च कृष्णो वेश्माविशन्निजम् ।। २०४ ।। कस्यापि प्रावृषं यावत् प्रवेशो मम वेश्मनि । न प्रदेय इति द्वाःस्थानादिदेश च शाईमृत् ।।२०५ ।। वीरो नाम कुविन्दोऽभूत् पुर्यां तत्रातिवैष्णवः । कृष्णं विलोक्यार्चित्वा च बुभुजे नान्यथा तु सः ।। २०६ ॥ प्रवेश सोऽलभमानस्तदा च हरिसद्मनि । द्वारस्थो हरिमुद्दिश्य पूजां चक्रे दिने दिने ॥२०७ ॥ कदाऽपि न च सोऽभुंक्त विष्णोरनवलोकनात् । व्यतीतासु च वर्षासु निर्ययौ वेश्मतो हरिः ॥२०८ ।। १ जगतृप्तिकरः । २ मेघवत् ।
मुनिशुश्रूषाप्रभावः।
॥३४२ ॥