________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४३॥
अष्टमं पर्व | दशमः |सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
उपातिष्ठन्त सर्वे तं राजानो वीरकश्च सः । किं कृशोऽसीति पप्रच्छ वासुदेवोऽपि वीरकम् ।। २०९ ।। द्वाःस्थास्तस्य यथावस्थां शशंसुः कार्यकारणम् । कृष्णोऽप्यस्खलितं चक्रे सकृपस्तं स्ववेश्मनि ।।२१० ॥ ततश्च वन्दितुं नेमि कृष्णोऽगात् सपरिच्छदः । यतिधर्म च शुश्राव स्वामिनं चेत्यभाषत ।।२११ ।।। न श्रामण्यक्षमोऽस्मीश तथापि नियमोऽस्तु मे । अन्यैर्ग्राहयितुं दीक्षां तथा ताननुमोदितुम् ।। २१२ ।। प्रव्रजिष्यति यः कश्चिद्वारयिष्याम्यहं न तम् । पुत्रस्येव करिष्ये च तस्य निष्क्रमणोत्सवम् ।। २१३ ॥ अभिगृह्येत्यगाद्विष्णुर्विवाह्या नन्तुमागताः । ऊचे स्वकन्याः स्वामिन्यो दास्यः किं वा भविष्यथ ।।२१४ ।। ता अप्यूचुर्भविष्यामः स्वामिन्य इति शाङ्गिणम् । शार्टीप्यूचे नेमिपार्श्वे तर्हि प्रव्रजतानघाः ।। २१५ ॥ इति प्रावाजयत् कन्या विवाहार्हाः क्रमेण सः । राज्येका चान्यदा प्रोचे स्वां सुतां केतुमारीम् ॥२१६ ।। पृष्टा तातेन वत्से त्वं भाषेथा अविशंकितम् । अहं दासीभविष्यामि न पुनः स्वामिनी प्रभो ।। २१७ ॥ विवाहयोग्या सा मात्रा प्रेषिता पितुरन्तिके । ययौ तथोचे पित्रा च साप्यूचे मातृशिक्षितम् ।। २१८ ॥ कृष्णोऽपि दध्यौ मत्पुत्र्योऽप्यटिष्यन्ति भवाटवीम् । विमाननां च प्राप्स्यन्ति सर्वथा तत्र सांप्रतम् ॥२१९ ।। यथा नैवं वदन्त्यन्यास्तथास्त्विति धिया हरिः । वीरं कुविन्दमवदत् प्रकृष्टं किं कृतं त्वया ।। २२० ॥ प्रकृष्टं न मया चक्रे किंचित्तमिति वादिनम् । ऊचे हरिस्तथापि त्वं विचिन्त्याख्याहि किंचन ॥२२१ ॥ १ अपमानम् । २ युक्तम् ।
प्रव्रज्या| प्रोत्साहन| कृते कृष्णा| भिग्रहः स्वसुताप्रतिबोधश्च ।
॥३४३ ॥