________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४४॥
अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
बभाषे वीरकोऽप्येवं बदरीस्थो मया पुरा । कृकलासोऽश्मना हत्वा पातितश्च मृतश्च सः ।। २२२ ।। रथांगकृतरेखायां मार्गे तोयं वहन्मया । धृतं वामांघ्रिणाक्रम्य तच्च दूरमपासरत् ।। २२३ ।। वस्त्रपातघटस्यान्तः प्रविष्टा मक्षिका मया । द्वारे वामकरं दत्वा रणन्त्यो विधृताश्चिरम् ।। २२४ ।। आस्थानस्थो द्वितीयेऽह्नि कृष्णो राज्ञां पुरोऽवदत् । स्वकुलस्याननुरुपं चरितं वीरकस्य भोः ।। २२५ ।। सावधाना ततस्तेऽपि कृष्णं जीवेति भाषिणः । श्रोतुमारेभिरे भूयः कृष्णोऽप्येवमभाषत ।। २२६ ।। येन रक्तस्फेटो नागो निवसन बदरीवने । निजघ्ने भूमिशस्त्रेण वेर्मतिः क्षत्रियो ह्ययम् ॥२२७ ॥ चक्रोत्खाता येन गंगा वहन्ती कलुषोदकम् । धारिता वामपादेन वेमतिः क्षत्रियो ह्ययम् ।। २२८ ।। येन घोषवती सेना वसन्ती कलसीपुरे । निरुद्धा वामहस्तेन वेमतिः क्षत्रियो ह्ययम् ।।२२९ ।। योग्यो ममायं जामाता सुव्यक्तपुरुषव्रतः । इत्युक्त्वा वीरकं स्माह गृह्यतां केतुमञ्जरीम् ।२३० ।। सोऽनिच्छन् भृकुटिं कृत्वा कृष्णेनोक्तस्तु तत्सुताम् । परिणीय गृहे निन्ये वीरकः केतुमञ्जरीम् ।। २३१ ।। शय्याधिरुढा तस्थौ च तद्गृहे केतुमञ्जरी । तदादेशकरश्चासीद्वीरकोऽपि दिवानिशम् ।। २३२ ।। किं केतुमञ्जर्याज्ञां ते करोतीति च शाङ्गिणा । पृष्टोऽन्यदावदद्वीरस्तदाज्ञाकारको ह्यहम् ।। २३३ ॥ कृष्णोऽपि हि बभाषे तं कर्म सर्वं न चेन्निजम् । प्रसह्य तां कारयसि तत्त्वं गुप्तौ प्रवेक्ष्यसि ।। २३४ ।। १ रथचक्रेण कृतायां रेखायाम् । २ रक्ता स्फटा फणा यस्य सः । ३ तन्तुवायः । ४ कारागृहे । * लोके 'काचींडो' ।
प्रव्रज्याप्रोत्साहनकृते कृष्णाभिग्रहः स्वसुताप्रतिबोधश्च ।
॥३४४ ।।