________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४५॥
अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कृष्णाशयज्ञो वीरोऽपि गत्वोचे केतुमञ्जरीम् । पानं कुरुष्व वस्त्रार्थे किमासीनैव तिष्ठसि ॥२३५ ॥ कोलिकस्त्वं न वेत्सीति विब्रुवाणां च तां क्रुधा । वीरकस्ताडयामास निःशंकं तुरिरज्जुभिः ॥२३६ ॥ रुदन्ती सा पितुर्गत्वा तमाख्यत्स्वपराभवम् । कृष्णोऽप्यूचे त्वया स्वाम्यं त्यक्त्वा दास्यं हि याचितम् ॥२३७॥ सावदत्तर्हि मे स्वाम्यमधुनापि प्रयच्छत । कृष्णोऽवदद्वीरकस्य वशेऽसि न ममाधुना ।। २३८ ॥ सनिर्बन्धं तया प्रोक्तः कृष्णो वारितवीरकः । नीत्वा प्रव्राजयामास तां नेमिस्वामिसन्निधौ ।। २३९ ।। अन्यदा सर्वसाधूनां द्वादशावर्तवन्दनम् । कृष्णो ददौ नृपास्त्वन्ये निर्वीर्यास्त्ववतस्थिरे ।। २४०॥ सर्वेषामपि साधूनां वासुदेवानुवर्तनात् । तत्पृष्ठतो वीरकोऽपि अदाद्वादशावर्तनम् ।। २४१ ॥ बभाषे स्वामिनं कृष्णः षष्ट्यग्रत्रिशताहवैः । न तथाहं परिश्रान्तो वन्दनेनामुना यथा ।। २४२ ॥ सर्वज्ञोऽप्यवदत् कृष्ण बह्वद्य भवतार्जितम् । पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म च ।। २४३ ।। उद्धृत्य सप्तमावन्यास्तृतीयनरकोचितम् । आयुर्बद्धं त्वया प्रान्ते करिष्यसि निकाचितम् ।।२४४ ।। कृष्णोऽप्युवाच भगवन् पुनर्यच्छामि वन्दनम् । नरकायुर्यथा प्राग्वन्मम त्रुटति मूलतः ।। २४५ ॥ स्वाम्यूचे धर्मशीलातो भवेत्ते द्रव्यवन्दनम् । फलं तु प्राप्यते भाववन्दनादन्यथा न तु ।। २४६ ।। वीरकस्य फलं कृष्णेनानुयुक्तोऽवदत् प्रभु । फलमस्य वपुःक्लेशस्त्वच्छन्दाद्वन्दते ह्यसौ ।। २४७ ।। १हे धर्मशील । २ त्वदनुसरणात् ।
कृष्णस्य मुनिवन्दनप्रभावेण, क्षायिकसम्यक्त्वतीर्थकृन्नामकर्मार्जनम् चतुःनरकस्फेटनं च ।
॥३४५ ॥