________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४६॥
अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
भगवन्तं नमस्कृत्य भावयन् भगवद्वचः । जगाम द्वारकापुर्यां कृष्णोऽथ सपरिच्छदः ।। २४८ ॥ कृष्णस्य ढंढणापन्त्यां कुमारो ढंढणाभिधः । उद्यौवनः पर्यणैषीद्बह्वीनॅपकुमारिकाः ।। २४९ ॥ सोऽन्यदा स्वामिनः पार्श्वे श्रुत्वा धर्म विरक्तधीः । दीक्षामुपाददे पित्रा कृतनिष्क्रमणोत्सवः ।। २५० ॥ विजहे स्वामिना सार्धं बहूनां च मतोऽभवत् । एवं च तिष्ठतस्तस्योदगात् कर्मान्तरायकम् ॥ २५१ ॥ यत्र यत्र ययौ तत्र तत्राप न स किञ्चन । समं तेन ययुर्ये च मुनयोऽपि तथैव ते ।। २५२ ।। ततस्ते साधवो नेमिनाथायेदं व्यजिज्ञपन् । शिष्यस्त्रैलोक्यनाथस्य पुत्रः कृष्णस्य ढंढणः ।। २५३ ।। महेभ्यधार्मिकोदारजनायामपि पुर्यसौ । भिक्षामपि न लभते स्वामिन् किं तत्र कारणम् ।। २५४ ।। स्वाम्याख्यन्मगधेष्वासीद्धान्यपूरकनामनि । ग्रामे पुरा नृपायुक्तो नाम्ना विप्रः पराशरः ।। २५५ ।। राजक्षेत्राणि स ग्राम्यैरवापयदथान्यदा । प्राप्तेऽपि भोजने ग्राम्यान् भोजनायामुचन्न हि ।। २५६ ॥ क्षुधितैस्तृषितैः श्रान्तैर्वृषभैर्हालिकैश्च सः । अकर्षयद्बलात् क्षेत्रे सीतामेकां पृथक् पृथक् ।। २५७ ।। कर्मान्तरायमर्जित्वा मृत्वा भ्रान्त्वा भवं च सः । ढंढणोऽयमभूत्तच्च कमैतस्याधुनोदितम् ।। २५८ ।। तच्छुत्वा जातसंवेगो ढंढणः स्वामिनोऽन्तिके । परलब्ध्या न भोक्ष्येऽहमित्यभिग्रहमग्रहीत् ।। २५९ ॥ १ ग्रामे भवा ग्राम्यास्तैः २ क्षेत्रे हलकृता रेखा सीता कथ्यते ।
कृष्णस्यढंटणकुमारदीक्षां
उतरायो
दयश्च ।
।।३४६ ॥