________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४७॥
अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
सहमानो ढंढणर्षिस्तमलाभपरीषहम् । अभुजानः परलब्ध्या कालं कमपि सोऽनयत् ।। २६० ।। वासुदेवोऽन्यदापृच्छन्नेमिनाथं सभास्थितम् । मध्येऽमीषां महर्षीणां को हि दुष्करकारकः ।।२६१ ।। स्वाम्याख्यदुःकरकराः सर्वेऽमी ढंढणस्त्वति । इयन्तं योऽत्यगात् कालं सोढाऽलाभपरीषहम् ।। २६२ ।। ततो नत्वा प्रभुं कृष्णः प्रविशन् द्वारकापुरीम् । अपश्यड्ढंढणं साधु यान्तं गोचरचर्यया ।।२६३ ॥ गजादुत्तीर्य कृष्णस्तं नमश्चक्रेऽतिभक्तितः । दृष्ट्वैकश्रेष्ठिनाचिन्ति धन्यः कृष्णेन यो नतः ।। २६४ ॥ विहरन् ढंढणोऽप्यागात्तस्यैव श्रेष्ठिनो गृहे । मोदकैर्बहुमानेन स तु तं प्रत्यलाभयत् ।। २६५ ।। ढंढणोऽप्येत्य सर्वज्ञं नत्वा चैवं व्यजिज्ञपत् । कर्मान्तरायकं किं मे क्षीणं भिक्षां यदाप्नवम् ।। २६६ ।। स्वाम्यूचे नान्तरायं ते क्षीणं लब्धिस्त्वियं हरेः । हरिणा वन्दितोऽसीति श्रेष्ठी त्वां प्रत्यलाभयत् ॥२६७ ।। रागादिरहितः सोऽथ परलब्धिरसाविति । परिष्ठापयितुं भिक्षां प्रारेभे स्थंडिलावनौ ।। २६८ ॥ पूर्वार्जितानि कर्माणि जीवानां दुःक्षयाण्यहो । इति स्थिरध्यानजुष उत्पेदे तस्य केवलम् ।।२६९ ॥ नेमि प्रदक्षिणीकृत्य ततः केवलिपर्षदि । ढंढणर्षिरुपाविक्षत् पूजितस्त्रिदशैरपि ॥२७० ।। विजहे भगवान्नेमिामाकरपुरादिषु । भूयो भूयो द्वारकायां पुर्यां च समवासरत् ।। २७१ ॥ तत्रैकदा स्थिते नाथेऽकस्मावृष्टिरजायत । भिक्षां भ्रान्त्वा रथनेमिः प्रतिस्वामिः चचाल च ।। २७२ ।। प्रविवेश गुहां चैकां तया वृष्ट्या स विद्रुतः । वन्दित्वा स्वामिनं राजीमती चापि न्यवर्तत ।। २७३ ।।
श्रीलंढणःकेवलम् ।
।।३४७ ॥