________________
त्रिषष्टिशलाका
पुरुषचरिते
॥३४८॥
अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
राजीमत्या
साध्व्यस्तत्सहचर्योऽथ वृष्टिभिताः प्रदुद्रुवुः । राजीमती गुहां तां तु विवेशाजानती सती ।। २७४ ।। प्राक्प्रविष्टमपश्यन्ती रथनेमि तमोवशात् । उद्वापयितुममुचद्वस्त्राण्यूर्ध्वस्थिता तु सा ।। २७५ ।। रथनेमिर्विवस्त्रां तां प्रेक्ष्य कामार्दितोऽवदत् । पुरापि प्रार्थिताभूस्त्वं संभोगावसरोऽधुना ।। २७६ ॥ रथनेमि स्वराज्ज्ञात्वा गोपितांगा झगित्यपि । बभाषे युज्यते नेदृक् कदाचित् कुलजन्मनाम् ।। २७७ ॥ सर्वज्ञस्यानुजोऽसि त्वं शिष्यस्तस्यैव तत्तव । अद्यापि केयं बुद्धिर्भो लोकद्वयविरोधिनी ।। २७८ ।। सर्वज्ञशिष्या भूत्वा ते पूरयिष्ये न वाञ्छितम् । वाञ्छयाप्यनया तु त्वं पतिष्यसि भवार्णवे ।। २७९ ।। चैत्यद्रव्यतिः साध्वीशीलभंगर्षिघातने । तथा प्रवचनोड्डाहो मूलाग्निर्बोधिशाखिनः ॥ २८० ॥ प्रविशन्ति वरं घोरे ज्वलितेऽपि हुताशने । वान्तं भोक्तुं न हीच्छन्ति कुले जाता अगंधने ।। २८१ ॥ धिगस्तु ते यशस्कामिन् यस्त्वं जीवितकारणात् । पातुं समीहसे वांतं श्रेयस्ते मरणं खलु ।। २८२ ।। सुताहं भोजराजस्यान्धकवृष्णेर्भवान् सुतः । मा कुले गन्धिनौ भूव संयम निभृतश्चर ।। २८३ ॥ नारीदेर्श स्पृहयसि यदि त्वं मदनातुरः । वाताहतो हठ श्वास्थितात्मा तद्भविष्यसि ।। २८४ ।। तयैवं बोधितः सोऽपि पश्चात्तापपरो मुहुः । सर्वां विमुच्य भोगेच्छां तीव्र व्रतमपालयत् ॥ २८५ ।। प्रभोरग्रे दुश्चरितं तदालोच्य स शुद्धधीः । छद्मस्थो वत्सरं स्थित्वा केवलज्ञानमासदत् ।। २८६ ।। १ हतिः हरणम् । २ नारी दृष्ट्वेति नारीदर्शनम् । ३ हठो जलवत्यौषधिविशेषः ।
रखनेमि
प्रतिबोधः।
||३४८ ॥