________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४९॥
अष्टमं पर्व दशमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
विहृत्यान्यत्र चान्येधुर्भूयो रैवतकाचले । श्रीनेमिः समवासार्बद्भव्यांभोरुहभास्करः ।। २८७ ।। कृष्ण पालकशांबादिपुत्रानूचे यथा प्रगे । य पूर्व वन्दिता नाथं तस्मै दास्येऽश्वमीप्सितम् ।। २८८ ॥ तच्छुत्वा शांबकुमारः प्रातरुत्थाय तल्पतः । गृहेऽपि तिष्ठन् भावेन नेमिनाथमवन्दत ।। २८९ ।। महत्यां पालको रात्रावुत्थाय वरवाजिना । गत्वा प्रभुमभव्यत्वाद्धृद्याक्रोशन्नवन्दत ।। २९० ॥ दर्पकाश्वं पालकेन याचितो हरिरब्रवीत् । दास्ये तस्याश्वमाख्यता यं स्वामी पूर्ववन्दकम् ।। २९१ ।। गत्वा च विष्णुना पृष्ट स्वाम्यादौ केन वन्दितः । स्वाम्याख्यत् पालकेनादौ द्रव्याच्छांबेन भावतः ।। २९२ ।। किमेतदिति कृष्णेन पृष्टो भूयोऽभ्यधात् प्रभुः । अभव्यः पालको ह्येष भव्यो जांबवतीसुतः ।। २९३ ॥
रथाङ्गपाणिः कुपितोऽथ पालकं तं भावहीनं निरवासयद्रुतम् ।
दत्वा यथायाचितमश्वपुंगवं शांबं महामंडलिकं व्यधात् पुनः ।। २९४ ।। इत्याचार्यश्रीहेमचंद्रसूरिविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमे पर्वणि द्रौपदीप्रत्याहरणगजसुकुमालादिचरितवर्णनो
नाम दशमः सर्गः ।
द्रव्यभावबन्दनम्।
।।३४९ ।।
१ हदि आक्रोशन् ।