________________
| एकादशः सर्गः ।।
त्रिषष्टिशलाकापुरुषचरिते ॥३५०॥
अष्टमं पर्व एकादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
श्रीनेमिनाथमन्येधुर्देशनान्ते जनार्दनः । नमस्कृत्य विनीतात्मा पप्रच्छेति कृताजलिः ॥ १ ॥ द्वारकाया यदूनां च मम च स्यात् क्षयः कथम् । हेतोः कुतोऽप्यन्यकृतः स्वयं कालवशेन वा ॥२॥ अथाख्यद्भगवान् शौर्यपुरस्य बहिराश्रमे । पराशर इति नाम्ना प्रथितस्तापसाग्रणीः ।।३।। कन्यां नीचकुला काश्चिद्यमुनाद्वीपके गतः । स सिषेवे सुतश्चाभूत्तयोद्वैपायनाह्वयः ।। ४ ।। परिव्राड् ब्रह्मचारी च दान्तश्च यदुसौहृदात् । निवसंस्तत्र शांबाद्यैर्मधांधैर्निहनिष्यते ।। ५ ।। स क्रुद्धो धक्ष्यति पुरी द्वारकां यदुभिः सह । जरत्कुमारात् स्वभ्रातुस्तव चान्तो भविष्यति ॥ ६ ॥ अरे कुलांगारकोऽयमित्यन्तः कलुषाशयैः । जराकुमारो ददृशे यदुभिः सकलैरपि ॥७॥ भूत्वापि वसुदेवस्य सूनुः किं भ्रातृघात्यहम् । तत्सर्वथान्यथा कर्तुं यतेऽहमिति चिन्तयन् ।।८॥ उत्थाय नेमि नत्वा च जारेयस्तूणयुग्मभृत् । कोदंडी कृष्णरक्षार्थ वनवासमशिश्रयत् ।। ९ ।। द्वैपायनोऽपि तच्छुत्वा लोकश्रुत्या प्रभोर्वचः । द्वारकाया यदूनां च रक्षार्थं वनवास्यभूत् ।। १०॥
द्वारिकाकृष्णादीनां क्षयस्य हेतुकयनम् ।
॥३५०॥