________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५१॥
अष्टमं पर्व एकादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कृष्णोऽपि स्वामिनं नत्वा विवेश द्वारकां पुरीम् । मद्यमूलो ह्यनर्थः स्यादिति मद्यं न्यवारयत् ।। ११ ॥ कृष्णाज्ञया समीपाद्रौ कदंबवनमध्यतः । कादंबर्यां कन्दरायां शिलाकुंडेषु भूरिशः ।। १२ ।। पुराकृतानि मद्यानि सर्वे द्वारवतीजनाः । गृहश्रोतोजलमिव नीत्वा नीत्वा प्रतत्यजुः ।। १३ ।। सिद्धार्थः सारथिर्धाता बलदेवमथावदत् । पुर्याः कुलस्य चेक्षां कथं द्रक्ष्यामि दुर्दशाम् ।। १४ ॥ तस्मान्मां विसृज स्वामिपादान्तेऽहं यथा व्रतम् । अधुनैव हि गृह्णामि कालक्षेपं सहे न हि ।।१५ ॥ उदश्रुस्तं बलोऽप्यूचे भ्रातर्युक्तं वदस्यदः । विनष्टुमक्षमेणापि विसृष्टोऽसि मयानघ ।। १६ ॥ तपस्तत्त्वा विपन्नस्त्वं देवीभूतो विपद्गतम् । संबोधयेः समये मां भ्रातृस्नेहमिमं स्मरन् ।। १७ ॥ आमेत्युदीर्य सिद्धार्थः प्रावाजीत् स्वामिनोऽन्तिके । षण्मासी च तपस्तीव्र तप्त्वा मृत्वा दिवं ययौ ।। १८ ॥ इतश्च या शिलाकुंडेष्वासीत् क्षिप्ता सुरा जनैः । नानाद्रुपुष्पसंपातात्तदा स्वाद्वी बभूव सा ।। १९ ॥ तदा च मासे वैशाखे कोऽपि शांबस्य पुरुषः । अटन् ययौ तत्र तृषा तां च दृष्ट्वा सुरां पपौ ॥ २० ॥ ततः प्रमुदितस्तेन तिमापूर्य सीधुना । ययौ वेश्मनि शाबस्य तच्चोपायनमार्पयत् ॥२१ ।। तत्सीधु दृष्ट्वा सामोद सप्रमोदो हरेः सुतः । पायं पायं जगादैवं कुत्र लब्धमिदं त्वया ।। २२ ।। सोऽप्याख्यत्सीधु तत्रस्थं शांबोऽप्यह्नि द्वितीयके । समं कुमारैर्दुर्दान्तैर्ययौ कादंबरी गुहाम् ।। २३ ॥ १ जलपात्रम् “मसक' इति भाषायाम् । २ मद्येन ।
शांबादीनां मद्यपानं द्वैपायनमुनिताडनं च।
॥३५१ ।।