________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५२॥
अष्टमं पर्व एकादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
शांबादीनां
कादंबरीगुहायोगान्नाम्ना कादंबरी सुराम् । तां प्रेक्ष्य शांबो मुमुदे तृषितो निम्नगामिव ।। २४ ।। भृत्यैरानाय्य तां शांबः पुष्पितद्रुवनान्तरे । बद्धापनः पपौ मित्रभ्रातृभ्रातृव्यसंयुतः ।। २५ ॥ चिरात्प्राप्तेति जीर्णेति सद्रव्यैः संस्कृतेति च । पिबन्तस्तां सुरां ते तु न तृप्तिमुपलेभिरे ।। २६ ।। द्वैपायनर्षि ध्यानस्थमग्रे तं गिरिमाश्रितम् । ददृशुर्मद्यपानान्धाः क्रीडन्तस्ते कुमारकाः ।। २७ ।। शांबो बभाषे स्वानित्थमयं मे नगरी कुलम् । हन्ता तद्धन्यतामेष हनिष्यति हतः कथम् ।। २८ ।। ततस्ते कुपिताः सर्वे लेष्टुभिः पादताडनैः । चपेटाभिर्मुष्टिभिश्च तमाजघ्नुर्मुहुर्मुहुः ।। २९ ।। पतितं तं महीपृष्ठे मृतप्राय विधाय ते । ययुः पुरी द्वारवती विविशु स्वस्ववेश्मसु ।। ३० ।। तच्चाज्ञासीच्चरैः कृष्णो दध्यौ चैवं विषादभाक् । अहो दुर्वांततामीषां कुमाराणां कुलान्तकृत् ।। ३१ ।। ततः कृष्णः सरामोऽगात्तत्र द्वैपायनं मुनिम् । अपश्यत् कोपरक्ताक्षं महाहिमिव ग्विषम् ।।३२ ॥ महामात्र इव व्यालमतिमात्रभयंकरम् । त्रिदंडिनं सान्त्वयितुं तमारेभे जनार्दनः ।।३३ ॥ क्रोध एव महाशत्रुर्यो दुःखं नेह केवलम् । प्रदत्ते किं तु सततं जन्मलक्षेषु जन्मिनः ।। ३४ ।। अज्ञानैर्मद्यपानान्धैरपराद्धं ममात्मजैः । तत्सहस्व महर्षे त्वममर्षो युज्यते न ते ॥ ३५ ॥ कृष्णेनेत्युच्यमानोऽपि नाशाम्यत् स त्रिदंडिक । इत्यूचे च कृतं कृष्ण भवतः सान्त्वभाषितैः ।।३६ ।। १ बद्धमापानं मद्यपानस्थानं येन सः ।
मद्यपानं
द्वैपायन
मुनि
ताडनं च।
॥३५२ ॥