________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५३॥
अष्टमं पर्व एकादशः
सर्गः
| श्रीअरिष्टनेमिजिनचरितम् ।
यो
शेषानात्तत्र
यत्पुत्रैस्ताड्यमानेन निदानं विहितं मया । सलोकां द्वारकां दग्धुं न मोक्षोऽत्र युवां विना ॥३७॥ कृष्णं न्यषेधद्रामोऽपि मा बान्धव मुधैव हि । परिव्राजमनुनयामुकं वारितवामकम् ।। ३८ ।। वक्राजिनासिकाहस्ताः स्थूलोष्ठोदरनासिकाः । विलक्षणाक्षा हीनाङ्गाः शान्ति यान्ति न जातुचित् ।। ३९ ।। अस्मिन् खलूक्त्वा तद्भातर्न नाशो भाविवस्तुनः । सर्वज्ञभाषितं चापि सर्वथा नान्यथा भवेत् ॥ ४०॥ ततश्च शोकसन्तप्तः कृष्णः स्वसदनं ययौ । द्वैपायननिदानं च द्वारिकायां प्रकट्यभूत् ।। ४१ ॥ अघोषयद्वितीयेऽह्नि नगर्यामिति शाहूभृत् । विशेषाद्धर्मनिरतास्तिष्ठतातः परं जनाः ।। ४२ ॥ तथारेभे जनः सर्वोऽप्युपेत्य भगवानपि । श्रीनेमिः समवासार्षीत्तत्र रैवतकाचले ।। ४३ ।। तत्र गत्वा च नत्वा च कृष्णः शुश्राव देशनाम् । जगन्मोहमहानिद्राविद्रावणरविप्रभाम् ॥ ४४ ।। प्रद्युम्नशाम्बौ निषध उल्मुकः सारणादयः । कुमाराः प्राव्रजन् केऽपि श्रुत्वा तां धर्मदेशनाम् ।। ४५ ।। रुक्मिणीजाम्बवत्याद्या बढ्यश्च यदुयोषितः । स्वामिनः पादपद्मान्ते भवोद्विग्नाः प्रवव्रजुः ।। ४६ ।। आचख्यौ कृष्णपृष्टश्च सर्वज्ञो भगवानिदम् । द्वैपायनो द्वादशेऽब्दे धक्ष्यति द्वारिकामिमाम् ॥४७ ।। दध्यौ च कृष्णो धन्यास्ते समुद्रविजयादयः । येऽग्रेऽपि प्राव्रजन् धिङ्मां राज्यलुब्धमदीक्षितम् ॥ ४८ ।। ज्ञात्वा तदाशयं स्वामी प्रोचे कृष्ण कदापि हि । न शाङ्गिणः प्रव्रजन्ति निदानेन कृतार्गलाः ।। ४९ ।। १ वारितो निवारितः सन् वाम एव वामकः कुटिल इति यावत् ।
द्वैपायनकृतं द्वारिकाविनाशनिदानम् ।
॥३५३ ॥