________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५४॥
अष्टमं पर्व एकादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तप:
गच्छन्त्यवश्यं तेऽधस्तात्त्वं गामी वालुकाप्रभाम् । श्रुत्वेति कृष्णः सद्योऽपि नितान्तविधुरोऽभवत् ॥ ५० ॥ भूयोऽभ्यधत्त सर्वज्ञो मा विषीद जनार्दन । तत उद्धृत्य मर्त्यस्त्वं भावी वैमानिकस्ततः ॥५१ ॥ च्युत्वा भाव्यत्र भरते गंगाद्वारपुरेशितुः । जितशत्रोः सुतोऽहंस्त्वं द्वादशो नामतोऽममः ।। ५२ ॥ ब्रह्मलोकं बलो गामी मर्यो भावी ततश्च्युतः । ततोऽपि देवश्च्युत्वा स भाव्यन्त्र भरते पुमान् ।। ५३ ।। उत्सर्पिण्यां प्रसर्पन्त्यां पृथिवीश जनार्दन । तीर्थनाथस्य ते तीर्थे स मोक्षमुपयास्यति ।। ५४ ॥ इत्युदित्वा जगन्नाथो विहरन्नन्यतो ययौ । तं नत्वा वासुदेवोऽपि जगाम द्वारिका पुरीम् ।। ५५ ॥ तथैव घोषणां कृष्णः पुनः पुर्यामकारयत् । विशेषतो धर्मनिष्ठो लोकः सर्वो बभूव च ।। ५६ ।। मृत्वा द्वैपायनोऽप्यग्निकुमारेषूदपद्यत । सस्मार पूर्ववैरं च द्वारकामाजगाम च ।। ५७ ॥ चतुर्थषष्ठाष्टमादिरतं तत्राखिलं जनम् । देवपूजाप्रसक्तं चापश्यद्वैपायनोऽसुरः ।। ५८ ॥ धर्मप्रभावतस्तत्रोपसर्ग कर्तुमक्षमः । छिद्राण्यन्वेषयन् सोऽस्थाद्वर्षाण्येकादशौनधीः ।। ५९ ।। प्राप्तेऽब्दे द्वादशे लोको दध्यौ यत्तपसामुना । भ्रष्टो द्वैपायनो नष्टो जितश्चेति रमामहे ।। ६० ।। रन्तुं प्रवृत्तास्ते स्वैरं मद्यपा मांसखादिनः । लेभेऽवकाशं छिद्रज्ञस्तदा द्वैपायनोऽपि हि ॥६१ ॥ उत्पाता विविधाश्चैवं कल्पान्तोत्पातसन्निभाः । प्रादुरासन् द्वारकायामन्तकद्वारदर्शिनः ॥ २ ॥ १ मारकबुद्धिः ।
प्रभावेण द्वारिकारक्षणम् ।
॥३५४ ॥