________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५५॥
अष्टमं पर्व एकादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
निपेतुरुल्का निर्घाताश्चाभवन् भूरकम्पत । ग्रहाश्च मुमुचुछूमं धूमकेतुविडम्बकम् ।। ६३ ।। अङ्गारवृष्टिं विदधे सच्छिद्रं रविमंडलम् । अकस्मादुपरागश्च चन्द्रमार्तडयोरभूत् ।। ६४ ॥ अट्टहासं लेण्यमयाश्चक्रुर्वेश्मसु पुत्रकाः । उद्भूका जहसुश्चापि चित्रालिखितदेवताः ।। ६५ ।। पुर्यन्तः श्वापदाश्चेरुः स च द्वैपायनासुरः । शाकिनीभूतवेतालादिभिः परिवृतोऽभ्रमत् ॥ ६६ ।। स्वप्नेष्वपश्यन् पौराः स्वं रक्ताम्बरविलेपनम् । पङ्कमग्नं कृष्यमाणं दक्षिणाभिमुखं तथा ॥६७ ॥ प्रणेशुः सीरचक्रादिरत्नानि बलकृष्णयोः । ततो विचक्रे संवर्त वातं द्वैपायनासुरः ।।६८ ॥ स सर्वतोऽप्याजहार पुर्यां काष्ठतृणादिकम् । जनान् प्रणश्यतो दिग्भ्योऽप्यानीय न्यक्षिपत्पुरे ।। ६९ ॥ दिग्भ्योऽष्टाभ्योऽपि वातेन तेनोन्मूलितशाखिना । अपूर्यत समग्रापि दारुभिर्वारकापुरी ।। ७० ॥ षष्टि बाह्याः कुलकोटीर्वासप्ततिं तु मध्यगाः । संपिंड्य द्वारकापुर्यां सोऽसुरोऽग्निमदीपयत् ।। ७१ ।। धगग्धगिति जज्वाल क्षयानल इवानलः । नीरन्धैधूमसन्तानैर्विश्वमप्यन्धकारयन् ॥७२ ।। पदमप्यक्षमा गन्तुं मिथो निगडिता इव । सबालवृद्धास्ते पौराः पीडीभूयावतस्थिरे ।।७३ ॥ वसुदेवं देवकी च रोहिणी च रथे हरिः । आरोपयत् सरामोऽथ तानाक्रष्टुं प्रदीपनात् ।। ७४ ।। न चेलुस्तुरगास्तत्र न चेलुर्वृषभा अपि । सुरेण स्तंभितास्तेन वार्तिकेणेव पन्नगाः ।। ७५ ।। १ उद्गता भ्रूः भ्रूकुटिर्येषां ते ।
द्वारिकाविनाशः।
॥३५५ ॥