________________
अष्टमं पर्व एकादशः
त्रिषष्टिशलाकापुरुषचरिते ॥३५६॥
श्रीअरिष्टनेमिजिनचरितम् ।
ततः स्वयं बलोपेन्द्रौ तमाचकृषतू रथम् । भग्रमक्षयुगं सद्यस्तडत्तडिति कांडवत् ॥७६ ॥ तथापि तौ स्वसामर्थ्यात्तं द्वारे निन्यतू रथम् । पाहि हा राम हा कृष्णेत्याक्रन्दैर्दीनमानसौ ।। ७७ ।। अथ द्वारं कपाटाभ्यां झटित्येवासुरः प्यधात् । रामः पाणिप्रहारेणाभांक्षीत्तौ मृत्कपालवत् ।। ७८ ॥ भुवा ग्रस्त इव रथस्तथापि निरगान्न हि । सोऽपि देवोऽवदद्रामकृष्णौ किंमोह एष वाम् ।। ७९ ।। अहो पुरापि युवयोराख्यातं यधुवां विना । न मोक्षः कस्यचिदिह विक्रीतं हि तपो मया ।। ८० ।। ततस्ते पितरोऽवोचन हे वत्सौ गच्छतं युवाम् ।युवाभ्यां ननु जीवद्भ्यां जीवन्ति यदवोऽखिलाः ।।८१ ।। कृतेन पौरुषायत्तं युवाभ्यां कृतमेव हि । बलीयसी पुनरियं दुर्लघ्या भवितव्यता ।। ८२ ।। दीक्षा श्रीनेमिपादान्तेऽस्मकाभिर्भाग्यवर्जितैः । नोपात्तानुभविष्यामः फलमद्य स्वकर्मणाम् ।। ८३ ॥ इत्युक्तेऽपि यदा रामकृष्णौ नागच्छतां तदा । वसुदेवो देवकी च रोहिणी चैवमूचिरे ।। ८४ ।। अतः परं नः शरणं श्रीनेमिस्त्रिजगद्गुरुः । वयं चतुर्विधाहारप्रत्याख्यानमकृष्महि ।। ८५ ।। अर्हतः सिद्धसाधूंश्च धर्म चाहदुदीरितम् । अतः परं प्रपन्नाः स्मः शरणं शरणेच्छवः ।।८६ ।। न वयं कस्यचित् कोऽपि नास्मदीय इति स्वयम् । विहिताराधनास्तस्थुनमस्कारपरायणाः ।। ८७ ॥ तेषु द्वैपायनोऽथाग्नि ववर्षानलमेघवत् । विपद्य च ययुः स्वर्ग वसुदेवादयस्त्रयः ।।८८ ॥ रामकृष्णौ बहिः पुर्या जीर्णोद्यानेऽथ जग्मतुः । दह्यमानां पुरी तत्र स्थितौ द्वावप्यपश्यताम् ।। ८९ ।।
द्वारिकाविनाशः।
॥३५६ ॥