________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥३५७ ॥
माणिक्यभित्तयोऽभूवंश्चूर्णसादश्मखंडवत् । गोशीर्षचन्दनस्तंभा भस्मसाच्च पलालवत् ।। ९० ।। प्राकारकपिशीर्षाणि तडत्तडिति तुत्रुटुः । तलान्यपि निकेतानां फडप्फडिति पुस्फटुः ।। ९१ ।। ज्वालानां नान्तरं तत्राभूज्जलानामिवार्णवे । एकानलमभूत्सर्वमेकार्णवमिव क्षये ।। ९२ ।। ज्वालाहस्तैर्ननर्तेव जगर्जेवानलः स्वनैः । धूमव्याजात्पौरमत्स्येष्वानार्यमिव चानयत् ॥ ९३ ॥ अथोचे सीरिणं कृष्णो धिग्धिक् क्लीब इवाधुना । अहं तटस्थः पश्यामि दह्यमानां निजां पुरीम् ॥ ९४ ॥ यथा नालं पुरीं त्रातुं तथा न द्रष्टुमुत्सहे । आर्य ब्रूहि क्वगच्छावो विरुद्धं सर्वमावयोः ।। ९५ ।। बभाषे बलभद्रोऽपि सुहृत्सम्बन्धिबान्धवाः । अस्माकं पांडुतनयास्तद्यावस्तन्निकेतनम् ॥ ९६ ॥ कृष्णोऽप्यूचे तदानीं ते मया निर्विषयीकृताः । कथं तद्धाम्नि यास्यावः स्वापकारेण लज्जितौ ॥ ९७ ॥ ऊचे रामोऽप्युपकारं सन्तो दधति चेतसि । कदापि कुस्वप्नमिव नापकारं स्मरन्ति तु ॥ ९८ ॥ अनेकधा सत्कृतास्ते कृतज्ञाः पांडुसूनवः । पूजामेव करिष्यन्ति भ्रातर्विमृश मान्यथा ।। ९९ ।। इत्युक्तः सीरिणा शार्ङ्गं प्राचलत्पूर्वदक्षिणाम् । उद्दिश्य पांडवपुरीं तां पांडुमथुराभिधाम् ।। १०० ।। इतश्च पुर्यां ज्वलन्त्यां रामसूः कुब्जवारकः । चरमांगोऽधिसौधाग्रमूर्ध्वबाहुरदोऽवदत् ।। १०१ ।। शिष्यः श्रीनेमिनाथस्याधुना व्रतधरोऽस्म्यहम् । आख्यातः स्वामिना चाहं चरमांगः शिवं गमी ॥ १०२ ॥ १ चूर्णाधीनाश्चूर्णसात् । २ आनायं जालम् ।
अष्टमं पर्व एकादश: सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
द्वारिकाविनाशः ।
।। ३५७ ।।