________________
त्रिषष्टिशलाकापुरुषचरिते ॥३५८॥
अष्टमं पर्व एकादशः सर्गःश्रीअरिष्टनेमिजिनचरितम् ।
प्रमाणमर्हदाज्ञा चेत्तद्दोऽहं किमग्निना । इत्युक्ते मुंभका देवास्तं निन्युः स्वामिनोऽन्तिके ।। १०३ ।। श्रीनेमिः पल्लवे देशो तदा हि समवासरत् । तत्र च प्राव्रजत् कुब्जवारकः स महामनाः ॥ १०४ ॥ प्रागप्रव्रजिता यास्तु रामकृष्णादियोषितः । नेमि स्मरन्त्यो विहितानशनास्ता विपेदिरे ।।१०५ ।। षष्टि‘सप्ततिश्चापि निर्दग्धाः कुलकोटयः । षण्मास्येवं पुरी दग्धा प्लाविता चाब्धिना ततः ।। १०६ ॥ इतश्च गच्छन् कृष्णोऽपि हस्तिकल्पं पुरं पथि । प्राप्तः सन् क्षुद्भवां पीडां शशंस हलधारिणे ।। १०७ ।। बभाषे बलभद्रस्तं त्वत्कृते भक्तहेतवे । यास्याम्यत्र पुरे तिष्ठेरप्रमत्तोऽत्र बान्धव ॥ १०८ ॥ विधुरं यदि मे किञ्चित्कुतोऽप्यत्र भविष्यति । करिष्यामि तदा श्वेडां तामाकर्ण्य त्वमापतेः ॥१०९ ।। इत्युक्त्वा प्राविशद्रामस्तत्पुरं पुरवासिभिः । देवताकारभृत् कोऽयमित्याश्चर्यान्निरीक्षितः ॥११०॥ अग्निना द्वारका दग्धा तस्या निर्गत्य सीर्ययम् । आयात इति लोकेऽभूत् किंवदन्ती विमर्शजा ।।१११ ॥ अंगुलीयेन रामोऽपि कान्दुकाद्विविधं स्वयम् । जग्राह भोज्यं मदिरां कटकेन च शौडिकात् ।। ११२ ।। तदादाय बलोऽगच्छद्यावद्गोपुरसन्निधौ । तं दृष्ट्वा तावदारक्षा विस्मिता नृपतिं ययुः ।। ११३ ॥ धृतराष्ट्रसुतस्तस्मिन्नच्छदंतोऽभवन्नृपः । कृष्णगृह्मैः पांडुपुत्रैर्हतशेषीकृतः पुरा ।। ११४ ।। आरक्षास्तं तदेत्यूचुर्महाघे कटकोर्मिके । दत्वा दस्युवदादत्त त्वत्पुरे मद्यभोजने ॥११५ ॥ १ विचाराज्जनिता । २ शौडिको मद्यविक्रेता ।
कृष्णबलरामयोर्हस्ति कल्पेशेन सह युद्धम् ।
॥३५८॥