________________
त्रिषष्टिशलाका
पुरुषचरिते ॥३५९ ॥
मूर्त्या च सीरिणस्तुल्यो गच्छन्नस्त्यधुना बहिः । स दस्युर्वा बलो वास्तु नास्त्यागोऽस्मास्वतः परम् ।। ११६ ।। अच्छदन्तो बलं हन्तुं सबलस्तत्र चाययौ । गोपुरस्य कपाटौ चाकारयत् पातितार्गलौ ॥ ११७ ॥ भक्तपाने बलो मुक्त्वा स्तंभमुन्मूल्य दन्तिनः । कृतक्ष्वेडोऽथारिबलं निहन्तुमुपचक्रमे ।। ११८ ।। क्ष्वेडामाकर्ण्य कृष्णोऽपि धावितः पाष्णिघाततः । भंक्त्वा कपाटयै प्राविक्षत् पुरमौर्व इवार्णवम् ॥ ११९ ॥ कृष्णस्तत्परिघं गृह्णन् परसैन्याञ्जघान तान् । इत्युवाच च राजानमच्छदन्तं वशंवदम् ।। १२० ।। नागाद्दोःस्थाम नौ क्वापि किमरे भवता कृतम् । स्वराज्यं निभृतो भुंक्ष्व मुक्तोऽस्मादागसो ह्यसि ।। १२१ ।। इत्युक्त्वा बुभुजाते तो गत्वोद्याने पुराद्द्बहिः । प्रत्यपाचि प्रस्थितौ च कौशांबवनमीयतुः ।। १२२ ॥ मद्यपानात् सलवणाशनाद्ग्रीष्मवशाच्छ्रमात् । शोकात्पुण्यक्षयाञ्चाप तत्र कृष्णो भृशं तृषाम् ।। १२३ ।। अथावदद्बलं कृष्णस्तृषया तालु शुष्यति । वृक्षच्छायाकुलेऽप्यस्मिन्न वने गन्तुमीश्वरः ।। १२४ ॥ बभाषे बलभद्रोऽपि यास्यामि भ्रातरंभसे । विश्राम्यन्नत्र तिष्ठ त्वमप्रमत्तस्तरोस्तले ।। १२५ ।। पादं जानूपरि न्यस्य स्वं च पीतेन वाससा । प्रच्छाद्याध्वतरोर्मूले सुप्तो निद्रां ययौ हरिः ।। १२६ ॥ पुनरप्यवदद्रामो हे भ्रातः प्राणवल्लभ । यावदायाम्यहं तावदप्रमत्तो भवेः क्षणम् ।। १२७ ।। उन्मुखीभूय चावोचद्वनदेव्यो ममानुजः । युष्माकं शरणेऽस्त्येष त्रातव्यो विश्ववल्लभः ।। १२८ ॥
अष्टमं पर्व एकादशः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
कृष्णबलरामयोर्हस्ति कल्पेशेन
सह युद्धम् ।
।। ३५९ ।।