________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६०॥
अष्टमं पर्व एकादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
| इत्युक्त्वा सोऽम्भसेऽगच्छत्तत्रागच्छच्च धन्वभृत् । व्याघ्रत्वग्वसनो लम्बकूर्ची व्याधो जरासुतः ।। १२९ ॥
मृगव्येन भ्रमंस्तत्रापश्यत् कृष्णं तथास्थितम् । मृगबुद्धया तले चाहआरेयस्तीक्ष्णपत्रिणा ।। १३० ।। वेगादुत्थाय कृष्णोऽपि जगादाहं विनागसा । छलात्पादतले विद्धः केनानाभाष्य पत्रिणा ।। १३१ ।। हतपूर्वी क्वचिन्नाहमज्ञातज्ञातिनामकम् । भवानपि तदाख्यातु निजं गोत्रं च नाम च ।। १३२ ॥ द्रुमान्तरस्थः सोऽप्यूचे हरिवंशाब्धिशीतगोः । वसुदेवदशार्हस्य जराकुक्षिभवः सुतः ।। १३३ ।। जराकुमारो नाम्नाहमग्रजो रामकृष्णयोः । कृष्णरक्षार्थमत्रागां श्रुत्वा श्रीनेमिनो वचः ॥ १३४ ॥ अब्दानि द्वादशाभूवन्नघेह वसतो मम । मानुषं चेह नाद्राक्षं कस्त्वमेवं ब्रवीषि भोः ॥ १३५ ।। कृष्णोऽथावोचदेह्येहि पुंव्याघ्र हरिरस्म्यहम् । तव भ्राता स एवैष यस्यार्थे वनवास्यभूः ।। १३६ ॥ वृथा प्रयासस्ते जज्ञे द्वादशाब्दानि बान्धव । दिङमोहेनेव पान्थस्थ सुदूरोल्लंधिताध्वनः ।।१३७ ॥ श्रुत्वेति किमयं कृष्ण इति तत्रैव सत्वरम् । जरत्कुमार आयासीदृष्ट्वा कृष्णं मुमूर्छ च ।। १३८ । कथमप्याप्तसंज्ञः सारेयः करुणं रुदन् । पप्रच्छ कृष्णं हा भ्रातः किमेतत्किमिहागमः ।। १३९ ॥ किं द्वारका पुरी दग्धा किं यदूनां क्षयोऽभवत् । सा नूनं नेमिवाक् सर्वा सत्या तेऽवस्थयानया ॥ १४० ।। कृष्णोऽपि सर्वमाचख्यौ जारेयोऽपि रुदन् पुनः । इत्यूचे हा मया भ्रातुरागतस्योचितं कृतम् ।। १४१ ।। १ दीर्घश्मश्रुः । २ जराया अपत्यं जारेयः ।
जराकुमारेण
कृष्णमरणम् ।
॥३६०॥