________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥३६१ ॥
कनिष्ठं दुर्दशामग्नं भ्रातरं भ्रातृवत्सलम् । त्वां निहन्तुर्मम स्थानं क्व नाम नरकावनौ ।। १४२ ।। वनवासं तव त्राणबुद्ध्याकार्षमहं किल । न जाने विधिना यत्ते स्थापितः पुरतोऽन्तकः ।। १४३ ॥ हे पृथ्वि देहि विवरं वरमद्यैव येन ताम् । अनेनैव शरीरेण प्रयामि नरकावनिम् ।। १४४ ।। अतः परमिह स्थानमधिकं नरकादपि । सर्वदुःखाधिके भ्रातृहत्यादुःख उपस्थिते ।। १४५ ।। वसुदेवस्य पुत्रोऽहं किं भ्राता तव चाभवम् । किं वाभूवं मनुष्योऽपि यः कर्माकार्षमीदृशम् ।। १४६ ।। सर्वज्ञवचनं श्रुत्वा तदैव न मृतोऽस्मि किम् । जनमात्रे मयि मृते किं न्यूनं स्यात्सति त्वयि ।। १४७ ॥ ततो बभाषे कृष्णस्तं कृतं भ्रातः शुचा तव । न त्वया न मया वापि लंघ्यते भवितव्यता ।। १४८ ।। अवशिष्टस्त्वमेवैको यदुभ्यो जीव तच्चिरम् । याहि याह्यन्यथा रामस्त्वां हन्यान्मद्वधक्रुधा ।। १४९ ॥ अभिज्ञानं कौस्तुभं मे गृहाण व्रज पांडवान् । वृत्तान्तं कथयेः सर्वं सहायाः सन्तु ते तव ।। १५० । अपसार्यं त्वया किञ्चिद्विपरीतैः पदैरितः । पदानुसारी रामस्त्वां यथा प्राप्नोति न द्रुतम् ।। १५१ ।। मद्वाचा क्षमयेः सर्वान् पांडवानपरानपि । मयैश्वर्यजुषा पूर्वं क्लेशितान् प्रेषणादिभिः ।। १५२ ।। एवं पुनः पुनः कृष्णेनोक्तः सोऽपि तथैव हि । कृष्णपादाच्छरं कृष्ट्वा जगामोपात्तकौस्तुभः ।। १५३ ।।
1
१ गन्तव्यम् ।
*
अष्टमं पर्व एकादशः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
जराकुमारेण
कृष्णमरणम् ।
।। ३६१ ।।