________________
त्रिषष्टिशलाका
पुरुषचरिते
॥३६२ ॥
जाये च गते पादवेदनार्तो जनार्दनः । उदङ्मुखः प्राञ्जलिश्च वक्तुमेवं प्रचक्रमे ।। १५४ ॥ नमोऽर्हद्भ्यो भगवद्भयः सिद्धेभ्यश्च नमो नमः । आचार्येभ्य उपाध्यायसाधुभ्यश्च त्रिधा नमः ।। १५५ ।। नमो भगवते विश्वस्वामिनेऽरिष्टनेमिने । त्यक्त्वास्मदादीन् यः पापांस्तीर्थं प्रावर्तयद्भुवि ।। १५६ ॥ इत्युक्त्वा संस्तरे तार्णे स्थित्वा जानूपरि क्रमम् । न्यस्य प्रावृत्य वस्त्रेण कृष्ण पुनरचिन्तयत् ।। १५७ । धन्यः स भगवान्नेमिर्वरदत्तादयश्च ते । प्रद्युम्नाद्याः कुमाराश्च रुक्मिण्याद्याश्च मत्स्त्रियः ।। १५८ ।। गृहवासं परित्यज्य भववासनिवन्धनम् । ये प्रवव्रजिरे तं तु धिङ्मां प्राप्तविडंबनम् ।। १५९ ।। एवं भावयतस्तस्य भंजन्नंगानि सर्वतः । चुकोप प्रबलो वायुः कृतान्तस्येव सोदरः ।। १६० ॥ तृष्णाशुग्घातवातैस्तैरर्दितोऽथ जनार्दनः । भ्रश्यद्विवेकः सद्योऽपि पुनरेवमचिन्तयत् ।। १६१ ।। पराभूतो न केनापि जन्मतो नृसुरैरपि । द्वैपायनेन प्रथमं नीतोऽहं कीदृशीं दशाम् ।। १६२ ।। इयत्यपि गते तं चेत्पश्याम्युत्थाय तत्स्वयम् । अन्तं नयामि स कियान् कः स्यात्तं रक्षितुं क्षमः ॥ १६३ ॥ इति क्षणं ध्यानमवाप्य रौद्रं समासहस्रं परिपूरितायुः ।
निकाचितैः कर्मभिरर्जितां प्राक् कृष्णस्तृतीयामवनीमवाप ।। १६४ ।।
१ तृणनिर्मिते ।
এ
अष्टमं पर्व एकादशः
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
जराकुमारेण
कृष्णमरणम् ।
।। ३६२ ।।