Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 390
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३४४॥ अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । बभाषे वीरकोऽप्येवं बदरीस्थो मया पुरा । कृकलासोऽश्मना हत्वा पातितश्च मृतश्च सः ।। २२२ ।। रथांगकृतरेखायां मार्गे तोयं वहन्मया । धृतं वामांघ्रिणाक्रम्य तच्च दूरमपासरत् ।। २२३ ।। वस्त्रपातघटस्यान्तः प्रविष्टा मक्षिका मया । द्वारे वामकरं दत्वा रणन्त्यो विधृताश्चिरम् ।। २२४ ।। आस्थानस्थो द्वितीयेऽह्नि कृष्णो राज्ञां पुरोऽवदत् । स्वकुलस्याननुरुपं चरितं वीरकस्य भोः ।। २२५ ।। सावधाना ततस्तेऽपि कृष्णं जीवेति भाषिणः । श्रोतुमारेभिरे भूयः कृष्णोऽप्येवमभाषत ।। २२६ ।। येन रक्तस्फेटो नागो निवसन बदरीवने । निजघ्ने भूमिशस्त्रेण वेर्मतिः क्षत्रियो ह्ययम् ॥२२७ ॥ चक्रोत्खाता येन गंगा वहन्ती कलुषोदकम् । धारिता वामपादेन वेमतिः क्षत्रियो ह्ययम् ।। २२८ ।। येन घोषवती सेना वसन्ती कलसीपुरे । निरुद्धा वामहस्तेन वेमतिः क्षत्रियो ह्ययम् ।।२२९ ।। योग्यो ममायं जामाता सुव्यक्तपुरुषव्रतः । इत्युक्त्वा वीरकं स्माह गृह्यतां केतुमञ्जरीम् ।२३० ।। सोऽनिच्छन् भृकुटिं कृत्वा कृष्णेनोक्तस्तु तत्सुताम् । परिणीय गृहे निन्ये वीरकः केतुमञ्जरीम् ।। २३१ ।। शय्याधिरुढा तस्थौ च तद्गृहे केतुमञ्जरी । तदादेशकरश्चासीद्वीरकोऽपि दिवानिशम् ।। २३२ ।। किं केतुमञ्जर्याज्ञां ते करोतीति च शाङ्गिणा । पृष्टोऽन्यदावदद्वीरस्तदाज्ञाकारको ह्यहम् ।। २३३ ॥ कृष्णोऽपि हि बभाषे तं कर्म सर्वं न चेन्निजम् । प्रसह्य तां कारयसि तत्त्वं गुप्तौ प्रवेक्ष्यसि ।। २३४ ।। १ रथचक्रेण कृतायां रेखायाम् । २ रक्ता स्फटा फणा यस्य सः । ३ तन्तुवायः । ४ कारागृहे । * लोके 'काचींडो' । प्रव्रज्याप्रोत्साहनकृते कृष्णाभिग्रहः स्वसुताप्रतिबोधश्च । ॥३४४ ।।

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420