Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 391
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३४५॥ अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । कृष्णाशयज्ञो वीरोऽपि गत्वोचे केतुमञ्जरीम् । पानं कुरुष्व वस्त्रार्थे किमासीनैव तिष्ठसि ॥२३५ ॥ कोलिकस्त्वं न वेत्सीति विब्रुवाणां च तां क्रुधा । वीरकस्ताडयामास निःशंकं तुरिरज्जुभिः ॥२३६ ॥ रुदन्ती सा पितुर्गत्वा तमाख्यत्स्वपराभवम् । कृष्णोऽप्यूचे त्वया स्वाम्यं त्यक्त्वा दास्यं हि याचितम् ॥२३७॥ सावदत्तर्हि मे स्वाम्यमधुनापि प्रयच्छत । कृष्णोऽवदद्वीरकस्य वशेऽसि न ममाधुना ।। २३८ ॥ सनिर्बन्धं तया प्रोक्तः कृष्णो वारितवीरकः । नीत्वा प्रव्राजयामास तां नेमिस्वामिसन्निधौ ।। २३९ ।। अन्यदा सर्वसाधूनां द्वादशावर्तवन्दनम् । कृष्णो ददौ नृपास्त्वन्ये निर्वीर्यास्त्ववतस्थिरे ।। २४०॥ सर्वेषामपि साधूनां वासुदेवानुवर्तनात् । तत्पृष्ठतो वीरकोऽपि अदाद्वादशावर्तनम् ।। २४१ ॥ बभाषे स्वामिनं कृष्णः षष्ट्यग्रत्रिशताहवैः । न तथाहं परिश्रान्तो वन्दनेनामुना यथा ।। २४२ ॥ सर्वज्ञोऽप्यवदत् कृष्ण बह्वद्य भवतार्जितम् । पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म च ।। २४३ ।। उद्धृत्य सप्तमावन्यास्तृतीयनरकोचितम् । आयुर्बद्धं त्वया प्रान्ते करिष्यसि निकाचितम् ।।२४४ ।। कृष्णोऽप्युवाच भगवन् पुनर्यच्छामि वन्दनम् । नरकायुर्यथा प्राग्वन्मम त्रुटति मूलतः ।। २४५ ॥ स्वाम्यूचे धर्मशीलातो भवेत्ते द्रव्यवन्दनम् । फलं तु प्राप्यते भाववन्दनादन्यथा न तु ।। २४६ ।। वीरकस्य फलं कृष्णेनानुयुक्तोऽवदत् प्रभु । फलमस्य वपुःक्लेशस्त्वच्छन्दाद्वन्दते ह्यसौ ।। २४७ ।। १हे धर्मशील । २ त्वदनुसरणात् । कृष्णस्य मुनिवन्दनप्रभावेण, क्षायिकसम्यक्त्वतीर्थकृन्नामकर्मार्जनम् चतुःनरकस्फेटनं च । ॥३४५ ॥

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420