Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 419
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३७३॥ अष्टमं पर्व द्वादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् । कौमारे त्रिवर्षशती छद्मकेवलयोः पुनः । सप्तवर्षशतीत्यब्दसहस्रायुः शिवासुतः ।। ११५ ॥ श्रीनमिजिननिर्वाणाच्छ्रिनेमिस्वामिनिर्वृतिः । अतिक्रान्तेषु वर्षाणाममूलक्षेषु पञ्चसु ।। ११६ ॥ शक्राज्ञया वैश्रवणो विचक्रे शिबिकां प्रभोः । अंगं विधिवदर्चित्वा शक्रस्तत्र स्वयं न्यधात् ॥ ११७ ।। चक्रश्चितां च नै त्यामधिरत्नशिलातलम् । गोशीर्षचन्दनप्रायैरिन्धनैरथ नाकिन : ।।११८ ।। उत्पाट्य स्वामिशिबिकां तत्रानिन्ये पुरन्दरः । चितायामथ चिक्षेप श्रीनेमिस्वामिनो वपुः ।। ११९ ॥ शक्राज्ञयाग्निकुमाराश्चितायामग्निमादधुः । तमथ ज्वालयामासुर्दुतं वायुकुमारकाः ।। १२० ॥ क्षीरोदांभोभिरब्दाश्च कालाग्निं निरवापयन् । जगृहुश्च प्रभोर्दष्ट्राः शक्रेशानादिवासवाः ।। १२१ ॥ शेषाण्यस्थीन्यन्यदेवास्तद्देव्यः कुसुमानि च । भूपा वस्त्राणि लोकाश्च जगृहुर्भस्म नेमिनः ।। १२२ ।। स्वामिसंस्कारवैडूर्यशिलायां तत्र वज्रभृत् । वज्रेण स्वामिनोऽलेखील्लक्षणानि च नाम च ।। १२३ ॥ तस्यां शिलायां मघवा रचयामास पावनम् । श्रीनेमिनाथप्रतिमासनाथं चैत्यमुच्चकैः ।। १२४ ॥ एवं कृत्वा च शक्राद्याः स्वं स्वं स्थानं ययुः सुराः । इतश्च पांडवाः प्रापुर्हस्तकल्पे पुरे तदा ।। १२५ ॥ अस्मादद्वादश योजनानि स गिरिर्नेमि प्रगे वीक्ष्य तत् कुर्मो मासिकपारणं वयमिति प्रीत्या वदन्तो मिथः ।। तस्मिन हस्तिपुरे जनादिति तदा ते शुश्रुवुर्यत्प्रभुनेमिर्निवृतिमासमाद भगवांस्तैस्तैर्वृतः साधुभिः ।। १२६ ॥ श्रीनेमिनाथनिर्वाणम् । ॥३७३ ।।

Loading...

Page Navigation
1 ... 417 418 419 420