Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 414
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३६८॥ अष्टमं पर्व द्वादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् । केऽपि श्रावकतां भेजुः केऽपि भद्रकतां पुनः । कायोत्सर्ग व्यधुः केऽपि केऽपि चानशनं तदा ।। ५० ।। || मांसाहारान्निवृत्तास्ते बभूवुः पारिपाश्विकाः । तिर्यग्रूपधराः शिष्या इव राममहामुनेः ।। ५१ ॥ रामप्राग्भवसंबन्धः कोऽपि जातिस्मरो मृगः । अतिसंवेगमापन्नः सदा सहचरोऽभवत् ।। ५२ ।। उपास्योपास्य रामर्षिं स मृगो वनमभ्रमत् । अगवेषयदायातान् सान्नान् काष्ठादिहारिणः ।।५३ ॥ यदापश्यत्तदैवैत्य रामर्षि ध्यानसंस्थितम् । पर्यस्यन् शिरसा पादे भिक्षादातॄन् व्यजिज्ञपत् ।। ५४ ।। रामस्तदुपरोधेन ध्यानं मुक्त्वा क्षणादपि । भिक्षायै निरगात्तेन हरिणेनाग्रगामिना ।। ५५ ॥ तत्रान्येधुर्वने भव्यदारुभ्यो रथकारुकाः । आययुश्चिच्छिदुश्चापि वृक्षान् सारानृजून् बहून् ॥ ५६ ॥ तान् प्रेक्ष्य स भ्रमन्नेणः सद्यो राममजिज्ञपत् । ध्यानं चापारयत्तस्योपरोधात् स महामुनिः ।। ५७ ।। तेषु भोक्तुं निषण्णेषु भिक्षार्थं मासपारणे । रामर्षिराययौ तत्र हरिणेनाग्रगामिना ।। ५८ ॥ रथकाराग्रणी राम प्रेक्ष्य प्रीतो व्यचिन्तयत् । अहो अत्राप्यरण्येऽसौ कल्पद्रुरिव कोऽप्यृषिः ।। ५९ ॥ अहो रुपमहो तेजः प्रशमः कोऽप्यहो महान् । कृतार्थः सर्वथाप्यस्मि मुनिनातिथिनामुना ।।६०॥ रथकारो विचिन्त्यैवं पञ्चांगस्पृष्टभूतलः । बलर्षये नमस्कृत्य भोज्यपानान्युपानयत् ।।६१ ॥ अथ दध्यौ बलमुनिः श्राद्धः कोऽप्येष शुद्धधीः । कर्मार्जितुं स्वर्गफलं भिक्षा मे दातुमुद्यतः ।। ६२ । १ एणो मृगः । बलदेवमुनेः साधना। ॥३६८ ।।

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420