Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 386
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३४०॥ | अष्टमं पर्व दशमः सर्गः श्रीअरिष्टनेमिजिन चरितम् । तुष्टोऽथ सोऽमरः शक्रवृत्तान्ताख्यानपूर्वकम् । वरं वृणु महाभागित्यवोचत जनार्दनम् ।। १६८ ।। देवं कृष्णोऽप्यभाषिष्ट संप्रति द्वारिका पुरी । रोगोपसर्गर्बहुला तच्छान्त्यै किञ्चिदर्पय ।। १६९ ।। कृष्णायादात् सुरो भेरीमाख्यच्च यदियं त्वया । षण्मास्यन्ते षण्मास्यन्ते वादनीयात्मनः पुरी ।। १७० ।। अस्याः श्रुतेन शब्देनोपसर्गाः प्राक्तना हरे । क्षयं यास्यन्त्यथ नवा षण्मासी नैव भाविनः ।। १७१ ॥ इत्युक्त्वा स ययौ देवस्तां भेरी केशवोऽपि हि । तथैव वादयामास रुक्छान्तिश्चाभवत् पुरि ।। १७२ ।। भेरीख्यातिमथ श्रुत्वा कोऽपि दाहज्वरार्दितः । आगाद्देशान्तरादाढ्यो भेरीपालमुवाच च ।। १७३ ।। द्रव्यलक्षं गृहाणेदमुपकाराय मेऽनघ । भेरीखंडं पलमात्रं विश्राणय कृपां कुरु ।। १७४ ।। भेरीपालोऽप्यर्थलुब्धस्तत्खंडं तस्य दत्तवान् । भेरी चन्दनखंडेनापूरिष्ट श्लिष्टसन्धिना ।। १७५ ।। सोऽन्येभ्योऽपि ददावेवमर्थलुब्धस्तथा यथा । चन्दनच्छेदकन्थाभृत् सा भेरी मूलतोऽपि हि ।। १७६ ॥ अन्यदा त्वशिवे जाते शाभृत्तामवादयत् । सभामपि न तन्नादोऽत्यगान्मशकनादवत् ।। १७७ ।। किमेतदिति कृष्णेन पृष्टाः प्रत्ययिता नरा । कन्थीकृतां रक्षकेण तां भेरीमाचचक्षिरे ।। १७८ ।। तमारक्षमहन् कृष्णो भेरीमन्यां ततोऽमरात् । लेभे चाष्टमभक्तेन महद्भिः किं दुरासदम् ।। १७९ ॥ तां भेरी वादयामास रोगशान्त्यै जनार्दनः । वैद्यावयादिशद्धन्वन्तरिवैतरणी तथा ।। १८० ॥ तत्र वैतरणिर्भव्यश्चिकित्सां यस्य योचिता । तामाख्यायाकरोत्तस्य ददौ स्वमपि भेषजम् ।। १८१ ।। रोगापहारिणी दिव्यभेरी। ॥३४० ॥

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420