Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 387
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३४१॥ अष्टमं पर्व दशमः | सर्गः श्रीअरिष्टनेमिजिनचरितम् । धन्वन्तरिस्तु विदधे चिकित्सां पापसंयुताम् । अस्माकं विहितं नेदमिति तं साधवोऽभ्यधुः ।। १८२ ।। सोऽपि प्रतिबभाषे तान् साधुयोग्यो मया न हि । आयुर्वेदः कोऽप्यपाठिमा स्म कृध्वं वचो मम ।। १८३ ॥ एवं द्वावपि तौ वैद्यौ पुर्यां तत्राचिकित्सताम् । श्रीनेमि चान्यदापृच्छत् कृष्णः क्व गतिरेतयोः ॥ १८४ ॥ अथाचचक्षे भगवान् सप्तम्यां नरकावनौ । अप्रतिष्ठानमावासं वैद्यो धन्वन्तरिर्गमी ।। १८५ ।। वैद्यो वैतरणिविन्ध्यवने भावी प्लवङ्गमः । उद्यौवनो यूथपतिस्तत्रैव च भविष्यति ।। १८६ ॥ वने तत्रैकदा सार्थेनागमिष्यन्ति साधवः । तेष्वेकः श्रमणः पादे भग्नशल्यो भविष्यति ।। १८७ ॥ प्रतीक्ष्यमाणान् सोऽन्यर्षीन् वक्ष्यत्येवं यदत्र माम् । मुक्त्वा यातान्यथा सर्वे सार्थभ्रष्ट मरिष्यथ ।। १८८ ॥ तं छायास्थंडिले मुक्त्वा ते प्रयास्यन्ति साधवः । तत्पादशल्यमाक्रष्टुमक्षमा दीनचेतसः ।। १८९ ।। कपियूथपतिः सोऽपि तत्रैष्यत्यथ तं मुनिम् । दृष्ट्वा किलकिलारावं करिष्यन्त्यग्रवानराः ॥ १९० ॥ तन्नादरुष्टो यूथेशः सोऽग्रे स्थास्यति तमृषिम् । प्रेक्ष्य ध्यास्यति कुत्रेहग्जनं वीक्षितपूर्व्यहम् ।। १९१ ॥ स्मरिष्यति ततः पूर्वजाति स्वां तच्च वैद्यकम् । गिरेर्विशल्यारोहिण्यावानेष्यत्यौषधी ततः ।। १९२ ।। विशल्यां दशनैः पिष्ट्वा पादे तस्य निधास्यति । सद्यो विशल्यं तत्पादं रोहिण्यारोहयिष्यति ॥ १९३ ।। द्वारवत्यां वैतरणिवैद्योऽभूवं पुरा ह्यहम् । लिखिष्यत्यक्षराण्येवं मुनेस्तस्य पुरश्च सः ॥ १९४ ।। तच्चरित्रं श्रुतपूर्वी मुनिर्धर्म गदिष्यति । त्र्यहं कृत्वा कपिः प्रायं सहस्रारे गमिष्यति ॥१९५ ॥ मुनिशुश्रूषाप्रभावः। ।।३४१ ।।

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420